________________
तृतीयः काण्डः
inanitannarmannanannnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnunina
काम्बोजः पुनरश्वानां भेदे पुन्नागपादपे । .." वलक्षखदिरे चापि काम्बोजी माषपर्णिका ॥१३३॥ कारुजः कलमे फेने वल्मीके नागकेसरे । ... गैरिके शिल्पिना चित्रे स्वयंजाततिलेऽपि च ।।१३४।। कुटजोऽगस्त्ये द्रुभेदे द्रोणे गिरिजमभ्रके । ..
शिलाजतुनि लोहे च गिरिजा मातुलुङ्ग्युमा ।।१३५।। .. पुनरश्वानां भेदे पुन्नागपादपे । क्लक्षखदिरे चापि । कम्बोजदेशे भवः काम्बोजः । काम्यते वा उटज़ादित्वात्साधुः । अश्वभेदे यथा-यात्रानेहसि यस्य दिग्विजयिनः काम्बोजवाहावली। वीखोल्लेखविकासिनि क्षितिरजःपङ्के वियच्चुम्बति । वलक्षखदिरः श्वेतखदिरः । काम्बोजी माषपर्णिका । माषपर्णिका ओषधिविशेषः ।।१३३।। कारुजः कलभे फेने वल्मीके नागकेसरे । गैरिके शिल्पिना चित्रे स्वयंजाततिलेऽपि च । किरति कीर्यते वा कारुजः "उटजादयः” ( उ० १३४) इति साधुः । कारोर्जातो वा केन अरुजो वा । सप्तस्वर्थेषु । कलभस्त्रिंशदब्दको हस्ती । फेनो डिण्डीरः। वल्मीको नाकुः । नागकेसरो वृक्षः । गैरिकं धातुभेदः । शिल्पिना कारूणां चित्रं विस्मयकारि कर्म । तत्र वाच्यलिङ्गः । स्वयंजाततिलोऽरण्यतिलः ॥१३४॥ कुटजोऽगस्त्ये भेदे द्रोणे । कुटात् घटाज्जातः कुटजः । कुटति वा । "कुटे रजः” (उ० १३०) इति अजः । कुटादित्वान्न गुणः । अगस्त्ये द्रोणाचार्ये च यथाकुटजेन निपीतोऽयं महानपि रणोदधिः । द्रुभेदे वृक्षभेदे यथाकुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् । गिरिजमभ्रके । शिलाजतुनि लोहे च । गिरौ जातं गिरिजम् । अभ्रक स्वच्छपत्रम् । शिलाजतु धातुभेदः । लोहं ताम्रादि । सर्वेषु