________________
(५८)
अनेकार्थसंग्रहः सटोकः
रक्षोभेदेऽथाण्डजः स्यात्कक्किण्डेऽहौ खगे झपे । अण्डजा तु मृगनाभौ अङ्गजो मन्मथे सुते ॥१३१।। मदे केशे *अङ्गजं रक्ते कम्बोजो नीवृदन्तरे ।
शङ्खहस्तिभेदयोश्च करजो नखवृक्षयोः ॥१३२॥ विश्राणयति न नो धनम् । घृणौ यथा-संनिगृह्य तिमिरं मरीचिभिः। ऋषिभेदः सप्तऋषिमध्यवर्ती । यदाह-मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहस्तथा वसिष्ठश्च महातेजाः सप्तमः परिकीर्तितः। अथ मारीचः कक्कोले याजकद्विपे। रक्षाभेदे । म्रियतेऽनेन मारीचः। म्रियते रीचण् । कक्कोलो वृक्षभेदः । याजकस्य द्विपो याजकद्विपः ॥१३०॥ रक्षोभेदो रावणमातुलः । तत्र यथा-हिंस्रासु बाह मारीचमिश्रानः परिवृण्वतेः । अथ जान्ताः । अथाण्डजः स्यात्कक्किण्डेऽहौ खगे झषे । अण्डाज्जातोऽण्डजः । कक्किण्ड: कृकलासः । अहिः सर्पः । खगे यथा-नीडक्रोडेऽण्डजश्रेणीतुण्डै: खण्डयतिच्छदम् । झषो मत्स्यः । अण्डज़ा तु मृगनाभौ । मृगनाभिः कस्तूरिका । अङ्गजो मन्मथे सुते । मदे केशे। अङ्गादङ्गजे वा जायतेऽङ्गजः । चतुर्वपि यथा-अङ्गजः कस्य न प्रियः ।।१३॥ अङ्गजं रक्ते । रक्ते रुधिरे यथा-गजाङ्गजैस्तत्र वहन्ति नद्यः। कम्बोजो नीवृदन्तरे। शङ्खहस्तिभेदयोश्च । काम्यते कम्बोजः । उटजादयः (उ० १३४) इति साधुः । नीवृदन्तरे देशभेदे यथा-कम्बोजाः समरे सोदूं तस्य वीर्यमनीश्वराः । शङ्खभेदे हस्तिभेदे च यथा-कम्बोजः पूज्यते न कैः । करजो नखवृक्षयोः । करे जायते करजः । कोर्यते वा । उटजादित्वात्साधुः । नखे यथा-दन्तक्षतानि करजैश्च विपाटितानि । वृक्षः करजाख्यः ॥१३२॥ काम्बोजः . * प्र० सुदरे च काम्बोजो।