________________
-
तृतायः काण्डः नमुचिदितिजे कामे नाराचो लोहसायके । जलेभे नाराच्येवण्यां प्रपञ्चो लिप्रलम्भने ॥१२९॥ विस्तारे सञ्चये चापि मरीचिः कृपणे घृणौ।
ऋषिभेदेऽथ मारीचः कक्कोले याजकद्विपे ॥१३०।। क्रम्यते वा क्रकचः । "क्रकचादयः” (उ० ११५) इति साधुः । करपत्रे पुंक्लीबः । तत्र यथा-दारुदारं विदार्यन्ते दारुणैः क्रकचैः क्वचित् । कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च । कगति कणीचिः । “मृश्विकणि" (उ० ६२७) इति ईचिः । त्रिष्वर्थेषु । शकटे पुंसि । शेषयोः स्त्रियाम् ॥१२८॥ नमुचिदितिजे कामे । न मुञ्चति नमुचिः । “नाम्युपान्त्य” इति किदिः । नखादित्वान्नजोऽदभावः । दितिजे दानवे यथा-नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः । कामे स्मरे यथा-आविधेराकृमः किञ्चिन्नमुचिर्न विमुञ्चति । नाराचो लोहसायके । जलेभे । नरमञ्चति नराच् तस्यापत्यं (तस्यायं) नाराचः । नारमञ्चति वा । लोहसायके यथा-नाराचैः कृतवीर्यनन्दनवधूबाष्पप्रियं भावुकैः । जलेभो जलहस्ती । नाराच्येषण्याम । एपणी वैद्यशलाका । प्रपञ्चो विप्रलम्भने । विस्तारे सञ्चये चापि । प्रपञ्चनं प्रपञ्चः । विप्रलम्भनं विप्रतारणम् । तत्र यथाधूर्ताः प्रपञ्चचतुराः परिवञ्चयन्ते ।।१२९॥ विस्तारे यथा-कैः कैरत्र वचः प्रपञ्चरचनाचातुर्यमाचर्यते । सञ्चये यथा-बन्धूकविद्रुमजपाकुसुमप्रपञ्चोदन्तच्छदस्य सपरिच्छद एष सर्वः । मरीचिः कृपणे घृणौँ । ऋषिभेदे । म्रियतेऽसावनेन वा मरीचिः । "मृश्विकणि" (उ० ६२७) इति ईचिः । कृपणे वाच्यलिङ्गः। घृणौ स्त्रीपुंसः । ऋषौ पुमान् । कृपणे यथा-मरीचिम्रियमाणोऽपि