________________
Annanoranoramoonam
(५६) अनेकार्थसंग्रहः सटीक:
पलिघः काचकलशे घटे प्राकारगापुरे । प्रतिघो रुटप्रतिघातौ महा? लावकाण्डजे ॥१२६॥ महामूल्येऽप्यवीचिस्त्वन्तरङ्गे नरकान्तरे । कवचस्तु परित्राणे पटहे नन्दिपादपे ॥१२७॥ क्रकचः करपत्रे स्याद् ग्रन्थिलाख्यतरावपि ।
कणोचिः पुष्पितलतागुञ्जयोः शकटेऽपि च ॥१२८॥ परिघाङ्कयोगे-इति लत्वे पलिघः । त्रिष्वपि यथा-पलिघः । सलिलाकुलः। प्रतिघो रुट् प्रतिघातौ । प्रतिहन्यतेऽनेन प्रतिघः । "क्वचित्" इति डे पृषोदरादित्वाद् घत्वम् । रुट रोषस्तत्र यथाउद्दामप्रतिघानलप्रतिहतप्रज्ञः स विज्ञोऽप्यभूत् । प्रतिधाते यथासह निष्प्रतिधेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति । महाक़ लावकाण्डजे । महामूल्येऽपि । महान?ऽस्य महाघः । महामूल्ये वाच्यलिङ्गः । लावकोऽभिधानोऽण्डकः पक्षी लावकाण्डजः ॥१२६।। महामूल्ये यथा-यतो महा_णि भृतान्यनूनः प्रस्थमुंह(रिभिरुच्छिखानि । अथ चान्ताः । अवीचिस्त्वतरङ्गे नरकान्तरे । न विद्यन्ते वीचयोऽस्मिन् अवीचिः । अव्यते वा "मृश्चिकणि" (उ० ६२७) इति ईचिः । अतरङ्ग कल्लोलरहितम् । तत्र वाच्यलिङ्गः । नरकान्तरे स्त्रीपुंसः । अतरङ्गे यथाअवीचिनिर्वाते सरससरसीवेयमचला । नरकान्तरे यथा-अवीचौ पच्यन्ते सुकृतरहितायातनशतैः । कवचस्तु परि(तनु) त्राणे पटहे नन्दिपादपे । कूयते कवते वा कवचः । “कल्यवि" (उ०११४) इति अचः । तनुत्राणे पुंक्लीबः । तत्र यथा-रथी निषङ्गी कवची धनुष्मान् पटह आनकः । नन्दि पादपो गर्दभाण्डवृक्षः ॥१२७।। ऋकच: करपत्रे स्याद् ग्रन्थिलाख्यतरावपि । कात्यति