________________
तृतीयः काण्डः
अमोधः सफले मोघा पुनः पथ्याविडङ्गयोः । उल्लाघो निपुणे हृष्टे शुचिनिरोगयोरपि ॥१२४॥ काचिघस्तु मूषिके स्याच्छते कुम्भेच्छमण्डके ।। परिघोऽस्ने योगभेदे परिघातेऽर्गलेपि च ॥१२॥
मार्गम् ॥१२२॥ शबले यथा-नारङ्ग मीलसारङ्ग यावन्नो याति पक्वताम् । अथ घान्ताः । अनघः स्याद्गतपापे मनोज्ञे निर्मलेऽपि च । नास्ति अघमस्य अनघः। वाच्यलिङ्गः । सर्वेषु यथा-दिदृक्षमाणाः प्रति रथ्यमीयुर्मुरारिमारादनघं जनौधाः ॥१२३॥ अमोघः सफले । मुह्यतेऽनेन मोघः ।' पनि । मेघादित्वाद् घत्वम्, न मोघोऽमोघः। वाच्यलिङ्गः। यथायदमोघमपामन्तरुप्तं बीजमजत्वया । अमोघा पुनः पथ्याविडङ्गयोः । पथ्या हरीतकी । विडङ्गः कृमिघ्नम् । उल्लाघो निपुणे हृष्टे शुचि। नीरोगयोरपि। उल्लाघते स्म उल्लाघः। क्ते अनुपसर्गाः क्षीवोल्लाघेति साधुः वाच्यलिङ्गः । चतुर्वपि यथा-उल्लाघः श्लाघ्यते न कैः॥१२४॥ काचिघस्तु मूषिके स्याच्छते कुम्भेच्छमण्डके । कच्यते काचिघः "मघाघङ्घ' (उ० ११०) इति साधुः। मण्डकः प्रदेशविशेषः। परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेऽपि च । परिहण्यतेऽनेन परिहणनं वा परिघः। “परेघः” इति करणेऽलि साधुः। भावेऽपि बहुलाधिकारात्। अत्रे यथा-पादपाविद्धपरिघः शिलानिष्पिष्ट मुद्गरः। योगभेदे यथा-शूले मूनि मृगौ मघा चपरिघे चित्रा तथा वैधृते । परिसमन्ताद् हननं परिहण्यतेऽनेन वा परिघातः । तत्र यथा-भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः । अर्गले यथा-नगरपरिषदीर्घाकाहवस्ते ममेते ॥१२॥ पलिषः काचकलशे घटे प्राकारगापुरे । “परिषस्य