________________
(५४)
अनेकार्थसंग्रहः सटीकः
NNNNNNNNNNN
सम्भोगो भोगरतयोः शुण्डायां सर्वगं जले । सर्वगस्तु विभौ रौद्रे सारङ्गो विहगान्तरे ॥१२२॥ चातके चञ्चरीके च द्विपैणशबलेषु च । ।
अनघः स्याद् गतपापे मनोज्ञे निर्मलेपि च ॥१२३।। त्रिलिङ्गः। तत्र यथा-फेनौ रसाञ्जनं क्षौद्रं विडङ्गोऽथ मनःशिला। विसर्गो विसर्जनीये वर्चसि त्यागदानयोः । विसृज्यते विसर्गः । विसर्जनीये बिन्दुद्वये यथा-प्रतिकूलवर्णमुपहत लुप्तविसर्ग विसन्धिहतवृत्तम् । वर्चसि अन्नमले यथा-विसर्गः स्वर्गिणां कुतः। त्यागदानयोर्यथा-आदानं हि विसर्गाय. सतां वारिमुचामिव ॥१२१॥ सम्भोगो भोगरतयोः शुण्डायाम् । सम्भुज्यते सम्भोगः। भोगे यथा-असंभोगादलब्धेव समृद्धि[द्धिबुद्धिभिः । रते यथा-सम्भोगान्ते मम समुचिते हस्तसम्वाहनायाम् । शुण्डायां यथा-सम्भोगदण्डेन पपौ स नागः । सर्वगं जले। सर्वत्र गच्छति सर्वगम् । यथा-सर्वगं सर्ववल्लभम् । सर्वगस्तु विभौ रुद्रे । विभौ व्यापके वाच्यलिङ्गः। तत्र यथासर्वीयं सर्वगं सर्वं सर्वदेवनमस्कृतम् । रुद्रे यथा-स सर्वगः पर्वतपुत्रिकायुतः। सारङ्गो विहगान्तरे । चातके चञ्चरीके च द्विपैणशबलेषु च । सरति सारङ्गः। “ सृवृनृभ्यो णित्" (उ० ९९) इति अङ्गः। सारङ्गायति गच्छति वा । पृषोदरादित्वात् । सह आरङ्गेण वर्त्तते इति वा । चञ्चरीके स्त्रीपुंसः । शवले वर्णे पुंसि । तद्वति वाच्यलिङ्गः । षट्स्वर्थेषु शवलवर्ज सर्वेषु यथा-नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूलैराविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । दग्धारण्येष्वधिकसुरभि गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति