________________
तृतीयः काण्डः
འབའ་འབའའའའའའའའའའའའའའའའའ roomrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr
रक्तङ्गा जीवन्तिकायां रथाङ्गः कोकपक्षिणि । रथाङ्ग चके वराङ्ग योनौ शीर्षे गुडत्वचि ॥१२०॥ कुञ्जरे च विडङ्गस्तु स्यादभिज्ञकृमिघ्नयोः ।
विसर्गो विसर्जनीये वर्चसि त्यागदानयोः ॥१२॥ मन् मातौ च" (उ० १००) इत्यङ्गः । श्वपचश्चण्डालः । द्वयोर्यथा-मातङ्गानामपीहोपरि परपुरुषर्या च दृष्टा पतन्ती। मृदङ्गो घोषवाद्ययोः। मृद्यते मृदङ्गः। विडिविलि (उ०१०१) इति कृदङ्गः। घोषो नादभेदः। वाद्ये यथा-रजनि विरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राच्छेदमुच्च दङ्गः। रक्ताङ्गो भौमे। रक्तमङ्गमस्य रक्ताङ्गः। भौमो मङ्गलस्तत्र यथा-रक्ताङ्गः पञ्चमस्थः । रक्ताङ्गं कम्पिल्ये विद्रुमेऽपि च । कम्पिल्यम् औषधभेदः । विद्रुमः प्रवालम् ॥११९॥ रक्ताङ्गा जीवन्तिकायां । जीवन्तिका मधुस्रवा। रथाङ्गः कोकपक्षिणि । रथाङ्गं चक्रं तन्नामत्वाद् रथाङ्गः । यथा-रथाङ्गमिथुनाश्रया । रथाङ्गं चक्रे। रथस्याङ्गं रथाङ्गम् । यथा-रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः सम्वलिता विरेजिरे । वराङ्गं योनी शीर्षे गुडत्वचि कुञ्जरे च। वरं प्रधानमङ्गम, वराङ्गम् । योनो यथा-अङ्गनानां वराङ्गेषु नीरागो रज्यते कथम् । शीर्षे यथा- गङ्गां वराङ्गे दधतः स्मरारेः। गुडवन्मधुरात्वक् । सुगन्धिवल्ली (छली) विशेषः तत्र यथा-वराङ्गकौतीमधुकविल्वमज्जैलवालुकम् ॥१२०॥ कुञ्जरे यथा-वराङ्गसङ्ग्रामतरङ्गितेषु । विडङ्गस्तु स्यादभिज्ञकृमिघ्नयोः। विड् व्यापकमङ्गमस्य विडङ्गः। विड्यते वा "विडिविलि" (उ० १०१) इति किदङ्गः। अभिजे वाच्यलिङ्गः। कृमिघ्नम् । तत्र