________________
(५२)
अनेकार्थसंग्रहः सटांकः
यज्ञे तीर्थविशेषे च प्रयोगस्तु निदर्शने । कार्मणे च प्रयुक्तौ च प्रियङ्ग राजसर्षपे ॥११७।। पिपल्यां फलिनोकझ्वोः पुन्नागः पादपान्तरे । नातोफले नरश्रेष्ठे भुजङ्गः सर्पषिङ्गयोः ॥११८॥ मातङ्गः श्वपचो हस्ती मृदङ्गो घोषवाद्ययोः ।
रक्ताङ्गो भौमे रक्ताङ्ग कम्पिल्ये विद्रुमेऽपि च ॥११९॥ यथा-याति प्रयागो गगनेन वेगात् ॥११६॥ यज्ञे यथा-द्विजैः प्रयागः क्रियते नियोगात् । तीर्थविशेषे यथा-लोक: प्रयागवासी कूपे स्नानं समाचरति । प्रयोगस्तु निदर्शने । कर्मणे च प्रयुक्तौ च । प्रयुज्यतेऽनेन प्रयोजनं वा प्रयोगः । निदर्शने उदाहरणे यथादृष्टशिष्टप्रयोगोऽहम । कार्मणे वशीकरणे यथा-योगी प्रयोगेण वशीचकार । प्रयुक्तिर्व्यापारः। तत्र यथा-मुग्धत्वादविदितकतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः । प्रियङ्ग राजसर्षपे । पिपल्यां फलिनी कङ्ग्वोः। प्रीणाति प्रियङ्ग। "प्रीकैपैनीलेरङ्गुक" (उ० ७६१) राजसर्षपो राजिका ॥११७॥ पिप्पली कणा । फलिनी श्यामलता। तत्र यथा-प्रियङ्गश्यामाङ्गः प्रकृतिसुभगः । कङ्गः पीततण्डुला । तत्र यथा-अणवः प्रियङ्गकोद्रवमयुष्ठकाः शालिराढकाः। पुन्नागः पादपान्तरे । जातीफले नरश्रेष्ठे। पुमांश्चासौ नागश्च पुन्नागः । पुन्नाग इव प्रधानत्वाद्वा। णदपान्तरनरश्रेष्ठयोयथा-वरसहकारकरञ्जकवीरतरोशोकमदनपुन्नागः । भुजङ्गः सर्पषिङ्गयोः। भुजेन गच्छति भुजाभ्यां नृत्यद्भ्यामिव गच्छति वा भुजङ्गः । नाम्नो गमः इति डः । षिङ्गो वेश्यापतिः । द्वयोर्यथा-तमिद्धमाराधयितुं स कर्णकैः कुलैन भेजे फणिनां भुजङ्गता ॥११८॥ मातङ्गः श्वपचो हस्ती । मन्यते मातङ्गः । “मने