________________
तृतीयः काण्ड:
परागश्चन्दने रेणौ गिरौ ख्यात्युपरागयोः । स्नानीयपुष्परजसोः पतङ्गः सूर्यपक्षिणोः ॥११५।। पारते शलभे शालौ पत्राङ्गं रक्तचंदने । भूर्जपनकयोश्चापि प्रयागो वाजिशक्रयोः ॥११६।।
परा गच्छति परागः “नाम्नो गमः" इति डः । परश्वासौ रागश्चेति वा । सप्तस्वर्थेषु । चन्दने यथा-ग्रीष्मे परागरसवासितबाहुमध्या । रेणौ यथा-समूढकर्पूरपरागपाण्डुरम् । गिरिः पश्चिमाचलः । तत्र यथा-परागशृङ्गे रविरस्तमेति । ख्यातिः प्रसिद्धिः । सा च शुभा अशुभा च । तत्र अशुभायां यथासमपहाय विरागिपरागिणीरलिकदम्बकमम्बुरुहां ततीः । उपरागे सूर्येन्दुग्रहणे यथा- न देयं गणकर्लग्नं परागे चन्द्रसूर्ययोः । स्नाति अनेन स्नानीयं चूर्ण पिष्टिकादि तत्र यथा-परागोत्तितैरङ्गैः। पुष्परजसि यथा-उद्धृतः सरसिज़सम्भवः परागः । पतङ्गः सूर्यपक्षिणोः । पारते शलभे शालौ । पतति पतङ्गः । "पतितमीति" अङ्गः । पतौ गच्छति वा 'नाम्नो गमः" इति ड: । अपतंगति वा पृषोदरादित्वात् । सूर्ये यथा-पतत् पतङ्गप्रतिमस्तपोनिधिः । पक्षिणि यथा-पत्तङ्गनाथोपरि कैटभारिः ।११५।। पारते रसेन्द्रे यथा-तापादुड्डीय पतति पतङ्गः शीतले जले। शलभे यथा-पतङ्गवद्वह्निमुखं विविक्षुः । शालौ शालिबिशेषे यथापतङ्गास्तपनीयाश्च ये चाऽन्ये शालयः शुभाः। पारते क्लीब इत्यन्ये । पत्राङ्गं रक्तचन्दने । भूर्जपद्मकयोश्चापि । पत्रेष्वङ्गति पत्राणि अङ्गमस्येति वा पत्राङ्गम् । पद्मकम् औषधिभेदः । प्रयागो बाजिशक्रयोः । यज्ञे तीर्थविशेषे च । प्रारब्धो यागोऽत्रानेन अस्मिन् अस्मै वा प्रयागः । प्रयजनं प्रेज्यते वा । बाजिनि शके च