________________
(५०) अनेकार्थसंग्रहः सटोक:
नरङ्ग शेफे वरण्डे नारङ्गं विटजन्मिनोः । कणारसे नागरङ्गे निषङ्गस्तूर्णसङ्गयोः ॥११३॥ निसर्गः सृष्टौ स्वभावे *प्लवगः कपिमेकयोः ।
अर्कसूते पन्नगस्तु पाकाष्ठे भुजङ्गमे ॥११४॥ शेफो लिङ्गम् । वरण्डो भित्तिः । इक्ष्वादिभारको वा। नारङ्गं विटजन्मिनोः । कणारसे नागरौं । नृणाति नारङ्गम् । "सृवृनृभ्यो णित्” ( उ० ९९ ) इति अंगः। चतुर्वर्थेषु । विटः खिड्गः। जन्मी देही । कणारसः पिप्पलीरसः। नागरने यथारसो गन्धश्च रूपं च नारङ्गे त्रितयं स्थितम् । निषङ्गस्तूर्णसङ्गयोः । निषज्यन्ते बाणा अस्मिन्निति निषङ्गः। निषञ्जनं वा। तूणे इषुधौ यथा-जातामिषङ्गो नृपतिनिषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारि। सङ्गे यथा-गहनवननिषङ्गो मेक्षिहेतुर्न कस्य ।।११३॥ निसर्गः सृष्टो स्वभावे। निसर्जनं निसर्गः । सृष्टौ यथा-जगन्निसर्गसंहारकारकः परमेश्वरः । स्वभावे यथा-निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः । प्लवगः कपिभेकयोः । अर्कसूते । प्लवेन गच्छति प्लवगः । “नाम्नो गमः” इनि डः। कपौ यथाप्लवगसैन्यमलूकजिताजितम् । भेके मण्डूके यथा-प्लवगरवविचित्रे तत्र तीरे सरस्याः । अर्कस्य सूतः सारथिररुणः । अर्कादंशुमतः सूतो जातो वा । यदाह-रेवन्तस्त्वर्करेतोजः प्लवगो हयवाहनः । पन्नगस्तु पद्मकोष्ठे भुजङ्गमे। पद्भ्यां न गच्छति पन्नगः । पन्नं छन्नं गच्छति वा । पद्मकोष्ठम् ओषधिविशेषः । भुजङ्गमे यथा - दोलाकेलिनिषण्णपन्नगवधूगीतोत्सवप्रक्रमे ॥११४ ॥ परागश्चन्दने रेणौ गिरौं ख्यात्युपरागयोः। स्नानीयपुष्परजसोः।
नीलङ्ग कृमिजातिके । भम्भराल्यां प्रसूने च प्लवगः ।