________________
तृतीयः काण्ड:
पूतीकर धूम्याटे स्यात्कलिङ्गा नितम्बिनी । कलिङ्ग कौटजे फले कालिङ्गस्तु भुजङ्गमे ॥ ११० ॥ द्विरदे भूमिकर्कारौ कालिङ्गी राजकर्कटी । चत्राङ्गः श्वेतगरुति चक्राङ्गी कटुरोहिणी ॥ १११॥ जिह्मगो मन्दगे सर्पे तुरगो वाजिचित्तयोः ।
(४९)
तुरगी त्ववगन्धायां धाराङ्गस्तीर्थखगयोः ।। ११२ ॥ पूतीकरञ्जो वृक्ष: । धूम्याट : पक्षी । कलिङ्गा नितम्बिनी । नितम्बिनी स्त्रीविशेषः । कलिङ्गं कौटजे फले । कुटजस्य वृक्षस्येदं फलं कौंटजम । कालिङ्गस्तु भुजङ्गमे । द्विरदेभूमिकर्कारौ । कु ईषत् लिङ्गमस्य कालिङ्गः । " अल्पे " इति कादेशः, कलिङ्गे भवो वा । केन ( जलेन ) आलिङ्ग्यते वा ॥। ११० ।। भूमिकर्कारुः । कूष्माण्डविशेषः । कालिङ्गी राजकर्कटी । राजकर्कटी राजचिर्भटी । चत्राङ्गः श्वेतगरुति । चक्राकारं वृत्तत्वादङ्गमस्य चक्राङ्गः । श्वेतगरुति हंसे यथा चक्राङ्गर्वक्रितग्रीवैः । चक्राङ्गी कटुरोहिणी । कटुरोहिणी ओषधि - विशेषः ।। १११ । । जिह्मगो मन्दगे सर्पे । जिह्यं गच्छति जिह्मगः । " नाम्नो गमः" इति डः । मन्दगे वाच्यलिङ्गः । द्वयोर्यथाजिह्मगाः कस्य न द्वेष्याः । तुरगो वाजिचित्तयोः । तुरो गच्छति तुरगः । नाम्नोगमः इति डः । वाजिनि अश्वे यथा-आकुल्यकारिकटकस्तुरगेण तूर्णम् । चित्तं मनः । तुरगी त्वश्वगन्धायाम् । अश्वगन्धा ओषधिः । धाराङ्गस्तीर्थखड्गयोः । धारां परं प्रकर्षमङ्गति धाराङ्गः । धारे वाङ्गमस्येति वा । तीर्थं तीर्थविशेषः । खड्गे यथा-भ्रातर्भस्यति भूधरोऽपि भवता धारङ्गधाराहतः ।। ११२ ।। नरङ्गं शेफे वरण्डे । नृणाति नरंगम् । पतितमीत्यंगः ।