________________
(४८) अनेकार्थसंग्रहः सटीक:
आयोगो गन्धमाल्योपहारे व्यापृतिरोधयोः । आशुगोऽर्के शरे वायौ उत्सर्गस्त्यागदानयोः ।।१०८।। वर्जने सामान्यविवावुद्वेगं पूगिकाफले ।
उद्वेगस्तूद्वेजने अस्यात्कलिङ्गो नोवृदन्तरे ॥१०९।। धयोः । आयुज्यतेऽनेन आयुक्तिर्वा आयोगः । गन्धमाल्योपहारे यथा-आयोगयोगविहिताखिलदेवभोगः । व्यापृतौ व्यापारे यथाआयोगो योगकर्मणि । रोधो निरोधनम् । आशुगोऽर्के शरे वायौ। आशु शीघ्रं गच्छति आशुगः । “नाम्नो गमः" इति ड: । अर्के यया-नाशयत्याशुगस्तमः। शरे यथा-रावणस्यापि रामास्तो (?) भित्वा हृदयमाशुगः । वायौ यथा-आशुगापहृतपुष्पसौरभः । उत्सर्गस्त्यागदानयोः । वर्जने सामान्यविधौ । उत्सृज्यते उत्सर्जनम् वा उत्सर्गः । त्यागे यथा-तोयोत्सर्गा
द्रुततरगतिस्तत्परं वर्मतीर्णः । दाने यथा - वृत्तोत्सर्ग: स्ववर्मेभ्यः स्वर्गद्वारमनर्गलम् ॥१८॥ वर्जने यया-कर्तव्यो मत्सरोत्सर्गः । सामान्येनोक्तोविधिः सामान्यविधिः । तत्र यथा-अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः । उद्वेगं पूगिकाफले । उद्गतो वेगोऽस्य संसकत्वादुद्वेगम् । पुगिकाफलं क्रमुकम् । उद्वेगस्तूद्वेजने स्यात् । उद्वेजनम् उद्वेगः यथा-शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्याः । कलिङ्गो नीवृदन्तरे । पूतीकरजे धूम्याटै स्यात् । कल्यते कलिङ्गः । “स्फुलीकलि पल्याभ्य इङ्ग" (उ० १०२) कलिङ्गं चूडाऽस्येति वा । नीवृदन्तरे देशविशेषे यथा-उत्कलादेशितपथः कलिङ्गाभिमुखो ययौ । अयं प्रायेण {भूम्नि सूत्रे तु शब्दप्राधान्यादेकवचनान्तो निर्देशः ॥१०९।।
*मु० स्तिमिते शीघ्रगामिनि उद्वाहे च भवेऽपि स्यात्कलिङ्गो० ।