________________
तृतीयः काण्डः
पण्डिते फणिभेदे स्यादयोगः कठिनोद्यमे । विश्लेषे विधूरे कूटेऽपाङ्गो नेत्रान्तपुण्ड्योः ॥१०६॥ अङ्गहीनेऽप्यनङ्ग खे चित्तेऽनङ्गस्तु मन्मथे ।
आभोगः परिपूर्णत्वे वरुणच्छत्रयत्नयोः ॥१०७॥ . तथा । प्रत्यालीढमथालीढं स्थानान्येतानि षड् विदुः । सुमुखो गरुडात्मजे । पण्डिते फणिभेदे स्यात् । शोभनं मुखमस्य सुमुखः । गरुडात्मजो गरुडपुत्रः ॥१०५।। पण्डिते वाच्यलिङ्गः। तत्र यथा-ग्राह्या सुमुखशेमुषी । फणिभेदो नागविशेषः । अथ गान्ताः । अयोगः कठिनोद्यमे । विश्लेषे विधूरे कुटे । नास्ति योगोऽत्र अयोगः। अयोवद्गति वा । चतुर्वर्थेषु । कठिनेषु कर्मस्वद्यमोऽस्य पुरुषस्य कठिनोद्यमः । विधुरो विकलः । तयो
च्यलिङ्गः। विश्लेषे यथा-वरगुरुभिरयोगे दृम्भते नो विवेकः । कूटमसत्यम् । अपाङ्गो नेत्रान्तपुण्ड्रयोः । अङ्गहीनेऽपि । अपक्रान्तोऽपगतो वा अङ्गात्, अपकृष्टमङ्गमस्येति वा अपाङ्गः । अङ्गहीने वाच्यलिङ्गः। नेत्रान्ते यथा-चलापाङ्गं दृष्टि स्पृशसि बहुशो वेपथुमतीम् । पुण्ड्रे तिलके यथा-गोरोचनापाङ्गरुची ललाटे ।।१०६।। अङ्गहीने यथा-कुर्यान्नापाङ्गसङ्गतिम् । अनङ्गं खे चित्ते । नास्ति अङ्गम् आकारः शरीरं वाऽस्य अनङ्गम् । खम् आकाशम् । चित्तं मनः । अनङ्गस्तु मन्मथे। यथा-अनङ्गः पञ्चभिः पौष्पैविश्वं व्यजयतेषुभिः । आभोग: परिपूर्णत्वे वरुण
छत्रयत्नयोः । आसमन्ताद् भुज्यतेऽनेन आभोगः। परिपूर्णत्वे यथा-दृश्यः किञ्चित्पवनचलचीनांशुकतया कुचाभोगः स्त्रीणां हरति न तथोन्मुद्रितवपुः । वरुणस्य पादः पतेश्छत्रं वरुणछत्रम् । यत्न आदरः ॥१०७।। आयोगो गन्धमाल्योपहारे व्यापृतिरो