________________
(४६)
अनेकार्थसंग्रहः सटोकः
विशाखो याचके स्कन्दे विशाखा में कटिल्लके । वैशाखः खजके राधे सुमुखो गरुडात्मजे ॥१०॥
प्रमुखा देवाः। मयूखा ज्वालरुक्त्विषः । मयते मयूखः । मयेधिभ्यामुखे खौ (उ० ९१) इति ऊख: ज्वालोऽग्नेरर्चिः । रुक् शोभा त्विट किरणः । ज्वाले ज्वालायां यथाअभ्युद्गता अग्निभिरुन्मयूखैः । रुचि यथा-मुखमयूखपरजितमम्बुजम त्विषि यथा-विततपृथुवरत्रातुल्यरूपैर्मयूखैः । विशिखा खनित्रिकायां रथ्यायां । विशेषेण श्यति विशिखा । "श्यतेरिच वा” (उ०८५) इति ख: । विशिष्ा शिखाऽत्रेति वा । खनित्री मुनीनां मृदवदारणभाण्डं शस्त्रीप्रायम्, तत्र यथा-मुनयो विशिखोत्खातमृद्भिलिम्पति वेदिकाम् । रथ्या प्रतोली । यत्कौटिल्यः । विशिखायां सौवणिकप्रचारः । विशिखः शरै। शरे बाणे यथामनोभेद्यं शब्दप्रभृतय इमे पञ्चविशिखाः ।।१०४॥ विशाखो याचके स्कन्दे । विशखति विशाखः । याचकः प्रार्थयिता । तत्र वाच्यलिङ्गः। स्कन्दे यथा-दिश्याद्विशाखः शतशाखमायुः । विशाखा भे कटिल्लके । भे नक्षत्रे प्रायेण बहुवचनान्तः । तत्र यथा-कृत्तिकासु विशाखासु मघासु भरणीसु च । कटिल्लकः पुनर्नवः (कखेल्लकः) । यदाह-पुनर्नवो विशाखा च कटिल्लकः स शिलाटकः । वैशाखः खजके राधे। विशाखाः प्रयोजनमस्य वैशाखः । "विशाखाषाढ़ान्मन्थदण्डे" इति अण् । वैशाखी पौर्णमासी अस्येति वा । “साऽस्य पौर्णमासी" इत्यण् । खज़के मन्थानके यथा-दोवैशाखैविगाह्याम्भः। राधश्चित्रोत्तरो मासः । तत्र यथा-वैशाखे मधुसूदनः । स्थानकविशेषेऽपि मङ्खः । तत्र तु क्लीबे यथा-वैष्णवं समपादं च वैशाख मण्डलं