________________
तृतीयः काण्ड:
(४५)
हेरुकस्तु महाकालगणबुद्धविशेषयोः । गोमुखं वाद्यभाण्डे स्याल्लेपने कुटिलौकसि ॥१०२॥ विशिखो रक्षः त्रिशिखं स्यात्किरीटत्रिशूलयोः । दुर्मुखो मुखरे नागराजे वाजिनि वानरे ॥१०३॥ प्रमुखं प्रथमे मुख्ये मयूखा जालरुक् त्विषः ।
विशिखा खनित्रिकायां रथ्यायां विशिखः शरे ॥१०४॥ (उ० २६) इति साधुः । वाद्यभिदि स्त्री पुंसलिङ्गः । मुक्तहिक्का हुडुक्का ॥१०१॥ हेरुकस्तु महाकालगणबुद्धविशेषयोः । हिनाति हेरुक: । "कञ्चकः” (उ० ५७) इति साधुः । महाकालस्य ईश्वरस्य गणः प्रमथस्तस्य बुद्धस्य च विशेषे । अथ खान्ताः । गोमुखं वाद्यभाण्डे स्याल्लेपने कुटिलौकसि। गोरिवमुखमस्य गौर्जलं मुखं प्रधानमस्येति वा । गोमुखं वाद्यभाण्डे यथाप्रहतानेकगोमुखे । लेपने यथा-यस्यामलिन्देषु न चरेव मुग्धाङ्गना गोमयगोमुखानि । कुटिलं गोमुखाकारम् । ओको गृहम् । तत्र यथा-गोमुखं श्रीपराङ्मुखम् । वैजयन्ती तु गोमुखोऽत्री वाद्यभेदे नके नालेपने न पुमित्याह ॥१०२॥ त्रिशिखो रक्षः । तिस्रः शिखा यस्य त्रिशिखः । रक्षसि पलादे यथा-त्रिशिखो विशिखैर्हतः । त्रिशिखं किरीटत्रिशूलयोः । द्वयोर्यथा-उच्छिखं त्रिशिखं यस्य मौलौ पाणौ च वल्गति । दुर्मुखो मुखरे नागराजे वाजिनि वानरे । दुष्टं मुखं यस्य दुर्मुखः । मुखरे वाच्यलिङ्गः । तत्र यथा-उत्फुल्लगल्लरालापाः क्रियन्ते दुर्मुखैः सुखम् । वाजिनि यथा-हत्तुं वक्त्रं नाशकद्मुखोऽपि ॥१०३॥ प्रमुखं प्रथमे मुख्ये । प्रगतं मुखमं आदिभावं प्रधानत्वं वा प्रमुखम् । वाच्यलिङ्गः । द्वयोर्यथा-वासव