________________
अनेकार्थसंग्रहः सटीकः
-
सूतकं जन्मनि रसे सूचकः शुनि दुर्नने । कथके सीवनद्रव्ये मार्जारे वायसेऽपि च ॥१९॥ सृदाकुर्वजे दावाग्नौ प्रतिसूर्ये समीरणे । सेवकोऽनुगे प्रसेवे सेचकः सेक्तृमेघयोः ॥१०॥ हारको गद्यविज्ञानभिदोः कितवचोरयोः ।
हुडुक्को मदमत्ते स्याद्दात्यू हे वाद्यभिद्यपि ॥१०॥ के सूतकम् । रसे पारदे पुंक्लीः । जन्मनि यथा-न ग्राह्यं सुतसूतके । रसे यथा-कुष्टिने भस्मसूतकम् । सूचकः शुनि दुर्जने। कथके सीवनद्रव्ये मार्जारे वायसेऽपि च सूचयति सूचकः। कथकदुर्जनयोर्वाच्यलिङ्गः । शुनि दुर्जने मार्जारे वायसे च यथासूचको नीचवृत्तिः । कथके यथा-श्रुतं न शुभसूचकम् । सीवनद्रव्ये यथा-सूचकैः सीव्यते गोणी ।।९९॥ सृदाकुर्वज्र दावाग्नौ प्रतिसूर्ये समीरणे। सरति सृदाकुः । "सृपृभ्यांदाकुक्” (उ० ७५६) चतुष्टुं अर्थेषु पुंसि । प्रतिसूर्यः कृकलासः। सेवकोऽनुगे प्रसेवे। सेवते सेवकः । सीव्यते वा । "नाम्नि पुंसि च” इति णकः । अनुगे वाच्यलिङ्गः । तत्र यथा-प्रणमत्युन्नति हेतोर्जीवितहेतोविमुञ्चति प्राणान् । दुःखीयति सुखहेतोः को मूढः सेवकादन्यः । प्रसेवो वस्त्राद्यावपनम्, तत्र यथा-वीणापि सेवकवियोगवशाद्विषीदेत् । सेचकः सेक्तृमेघयोः । सिञ्चति सेचकः । सेक्तरि वाच्यलिङ्गः । द्वयोर्यथा-वनं सिञ्चति सेचकः ॥१००॥ हारको गद्यविज्ञानभिदोः कितवचौरयोः । हरति चित्तं वित्तं वा हारकः । चतुर्वर्थेषु । गद्यं छन्दोरहितो वाक्यबन्धस्तस्यभिद्विशेषः विज्ञानभित् कलाविशेषः । कितवो धूर्तः । चौरस्तस्करः । हुडुको मदमत्ते स्याद्दात्यूहे वाद्यभिद्यपि । हुड्गतौ होडति हुडुक्कः । "निष्कतुरुष्क"