________________
(४३)
तृतीयः काण्ड :
सरको मदिरापात्रे मदिरापानमद्ययोः । सस्यको नालिकेरान्तः सस्याभमणिखङ्गयोः ।। ९७ ।। सम्पर्कः सुरते पृक्तौ सायको बाणखड्गयोः । स्थासको हस्तबिम्बे स्यात्स्फुरकादेश्व बुबुदे ॥ ९८ ॥
।। ९६।। सरको मदिरापात्रे मदिरापानमद्ययोः । सरति सरक: । "दृकून " । ( उ०२७ ) इति अकः । मदिरापाने त्रिलिङ्गः, शेषयोः पुंक्लीब: । मद्यं मद्यविशेष इक्षुशीधु । सर्वेषु यथा - प्रापिचेतसिस - विप्रतिसारे योषितामवसरः सरकेण । सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः । सस्यप्रतिकृतिः सस्यकः । " तस्य तुल्ये" ७ /१/१०८ समन्तात्स्यति वा " कीचक" (३०३३) इति साधुः । सस्येन परिजातो वा "सस्याद्गुणात्परिजाते" .७/१/१७८ इति कः । नालिकेरस्य अन्तः सस्यं मध्यं बीजं तत्सदृशो मणिः । कश्चित्तु सस्यकः स्यान्मणी खड्डे नालिकेरस्य चान्ते इत्याह् । सम्पर्कः सुरते पृक्तौ । सम्पर्चनं सम्पर्कः । सुरते यथा - सम्पर्कस्तर्क्यते यूनोः श्लथधम्मिल्लभूषणेः । पृक्तौ सम्बन्धे यथा- प्राप्यतां विद्युतः सम्पत्सम्पर्कादर्करोचिषाम | सायको बाणखड्गयोः । स्यति सायकः । जकः । बाणं यथा - युष्मद्देहेषु लज्जां दधति परममी सांयका निष्पतन्तः । खड्गे यथा - सायकसहायवाहोर्मकरध्वजनियमितक्षमाधिपतेः । स्थासको हस्तबिम्बे स्यात्स्फुरकादेश्च बुद्बुदे तिष्ठति स्थासकः । " कीचक" ( उ० ३३) इतिसाधुः । हस्तबिम्बे यथा - सीताहस्ताम्बुजन्मार्पित - मलयभवस्थासकानर्च्चनेषु । स्फुरकादीनां बुद्बुदाकारे पित्तलादिमये भूषणे यथा - रौक्मा रेजुः ( सौवर्णाः) स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्य शेषः || ९८ ।। सूतकं जन्मनि रसे । सूत शब्दात्स्वार्थे