________________
(४२) अनेकार्थसंग्रहः सटोकः
छत्रपञ्जरकाष्टीषु शल्लकी श्वाविधिद्र मे । शार्ककः स्याद्दुग्धफेने शर्करायाश्च पिण्डके ।।९४।। शिशुकः पादपे बाले शिशुमारेऽथ शीतकः । शीतकालेऽलसे सुस्थे शूशकः प्रावटे रसे ॥९५॥ स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुण्कयोः ।
स्यमीकः पादपे नाकौ स्यात्स्यमीका तु नीलिका ॥९६॥ श्वाविधिद्रुमे । शलश्चल्ल आशुगतौ। कीचकादित्वात् शल्लकी । द्रुमे यथा-रेवाजलं किसलयानि च शल्लकीनाम् । अयं दन्त्यादिरपि। शार्ककः स्यादुरधफेने शर्करायाश्व पिण्डके । शृणाति पित्तमिति शार्ककः । “कीचक' (उ० ३३) इति साधुः ॥९४।। शिशुकः पादपे बाले शिशुमारे । शिशुरेब शिशुकः। शिशुं कृन्तति वा "क्वचित्” इति डः। बाले यथा-विविशुः शिशुकाः क्रोडे । अथ शीतक: शीतकालेऽलसे सुस्थे। शीत एव शीतकः। शीतं करोति वा । "शीताच्च कारिणि" इतिकः । अलससुस्थयोर्वाच्यलिङ्गः सर्वेषु यथा-शीतको दुर्गद्वेष्यः। शूककः प्रावटे रसे । शुक्गतौ शूककः। कीचकादित्वात् अके साधुः । प्रवृद्धो वट: कूपः प्रावट: । रसः पारदः ॥९५।। स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुष्कयोः । स्वस्तिकायति करोति वा स्वस्तिकः । 'क्वचित्" इति डः । मङ्गलद्रव्ये यथा-मुक्तास्वस्तिकमातनुध्वमुडुपत्वं पूर्णकु म्भी भव । गृहभेदो गृहविशेषः । तत्र यथा-स्वस्तिक: सर्वतोभद्रोरुचको वर्द्धमानक: । नन्द्यावर्त्तादयश्चान्ये द्वारालिंदादिभेदतः । चतुष्कं चतुष्पथम् । स्यमीकः पादपे नाकौ स्यात् । स्यमू शब्दे । स्यम्यते स्यमीकः । “स्यमिकषि” (उ० ४६) इतिईकः । नाकुवल्मीक: । स्यमीका तु नीलिका ॥ नीलिका ओषधिभेदः ।