________________
तृतीयः काण्ड:
(४१)
शङ्खकं वलये कम्बो शङ्खकस्तु शिरोरुजि । शम्पाकस्तु वियाते स्याद्याचके चतुरङ्गुले ॥१२॥ शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्कयोः ।
शलाका शारिका शल्यं श्वाविदालेरव्यकूचिका ।।९३॥ पाणयः । शङ्खकस्तु शिरोरुजि । शङ्ख भालैकदेशं कृणोति शङ्खकः। "क्वचित्" इति डः। शम्पा (या) कस्तु वियाते (विपाके) स्याद्याचके चतुरङ्गले । शाम्यति शम्याकः । “मवाक श्यामाक" (उ० ३७) इति साधुः । वियातो धृष्ट: । याचको मार्गणः । तयोर्वाच्यलिङ्गः । चतुरङ्गुल: कृतमालतरुः ॥९२।। शबूको दैत्यविशेषे करिकुम्भान्तशङ्खयोः । शाम्यति शम्बूकः । "शम्बूक शाम्बूक" (उ० ६१) इति साधुः । दैत्यविशेषे यथा-ब्रूत ब्रूत भटाः क्व स क्व स नरः शम्बूकजीवाहरः । करिकुम्भान्तो हस्तिकुम्भपर्यन्तः । शङ्खः कम्बुः । शलाका शारिका शत्यं श्वाविदालेख्यकूर्चिका छत्रपञ्जरकाष्टीषु । शलति शलाका । "शलिवलि" (उ० ३४) इत्याकः । षट्ष्वर्थेषु । शारिका पक्षिविशेषः । शल्यम आयुधविशेषः श्वावित् मृगविशेषः । आलेख्यकूचिका चित्रकरलेखनी । छत्रपञ्जरयोः काष्ठीछत्रपञ्जर काष्ठी इषुर्वाणविशेषः शारिकायां पञ्जरकाष्टयां च यथाशलाकापञ्जरस्थेयं शलाकामञ्जु गुञ्जति । आलेख्यकूचिकायां यथा-तस्याशलाकाञ्जननिर्मितेव ॥९३॥ छत्रकाष्टयांयथा-छत्रं रत्नशलाकाभिर्मेघनीलं विराजते । इषौ यथाक्षितिपाल: शलाकाभिः संकीलयति शात्रवम् । रत्नस्वरूपभित् परीक्षयोरपि मंखः । क्रमेण यथा-वडूर्यभूमिर्नवभेघशब्दादुद्धिनया रत्नशलाकयेव । शलाकया कोऽपि भिनत्ति पत्रम् । शल्लकी