________________
(४०)
अनेकार्थसंग्रहः सटीक:
NNNNNNN
वालुका तु सिकतासु वितर्केसंशयोहयोः । विपाकः परिणामे स्यादुर्गतिस्वादुनोरपि ॥८९।। विवेकः पुनरेकान्ते जलद्रोणीविचारयोः । वृषाङ्कः सात्रुभल्लात शंकरेषु महल्लके ॥९॥ वृश्चिकस्तु द्रुणे राशावौषधिशूककोटके । वैजिकं कारणे शिग्रुतैले च वैजिकोऽङकुरे ॥९१॥
स्वेदयोरपि मङ्खः । पचने यथा-विपाके कटुशीतञ्च । स्वेदे यथाआमज्वरे विपाकं प्रयुजीत ।।८९॥ विवेकः पुनरेकान्ते जलद्रोणीविचारयोः। विविच्यते विवेचनं वा विवेकः । पृथगात्मतायामपि । तत्रैकान्ते विचारे च यथा-रतिविवेके हि सदैव योगिनः । जलद्रोणी अवगाहस्थानम् । वृषाङ्कः साधु भल्लातशंकरेषु (वृषाङ्को शिवभल्लातौ रभसः) महल्लके । वृषो धर्मो महोक्षो वाङ्को यस्य वृषाङ्कः । वृश्चयते वर्षति वा । “मवाक" (उ० ३७) इति साधुः । साधौ सदाचारे वाच्यलिङ्गः । भल्लातो वृक्षविशेषः । शङ्करे यथा-पायाद्देवो वृषाङ्कः । महल्लकः सौविदल्ल: ।।९।। वृश्चिकस्तु द्रुणे राशावौषधिशूककीटके । वृश्चति वृश्चिकः। “पापुलि" (उ० ४१) इति किदिकः । द्रुणे स्त्रीपुंसः । द्रुणे राशिभेदे चयथा-तुलामारुह्य सूर्येण वृश्चिके निहितं पदम् । औषधे मदनकाख्ये यथा-एता वृश्चिकरागरक्तचरणाः । शूकप्रधानः कीट: कण्टकी कृमिः शूककीटः । तत्र यथा-गईभकवृश्चिकाकुलपङ्किलवसुधातलासु बर्षासु । वैजिकं कारणे शिग्रुतैले च। वीजं प्रयोजनमस्य बजिकम् । कारणं हेतुः। शिग्रुः शोभाजनस्तस्य तैलम्, शिग्रुतैलम् । बैजिकोऽङ्कुरे। अङ्कुरः प्ररोहः ।।९१।। शङ्खकं वलये कम्बौ । स एव सङ्ककप । तयोर्यथा-मुगुख्यो मङ्गलं चक्रुः पावकाति