________________
तृतीयः काण्डः
वार्षिकं त्रायमाणायां वर्षाभवेऽथ वाल्हिकः । देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् ।।८७॥ वाल्हिकवद्वार्धकं तु वृद्धत्वे वृद्धकर्मणि ।
वृद्धानां समवाये च वालुकं हरिवालुके ॥८८॥ देशभेदाश्वभेदयोः पुंल्लिगौ। हिगुकुङ्कुमयोनपुंसकौ । देशभेदाश्श्वभेदे च यथा-वाल्हिकेशो निगल्हते। वाल्होकीदशनच्छदारुणतलै: पत्रैरशोकोच्चितः वाल्हीकं तुरगं नृपः हिङ्गुकुङ्कुमयोर्यथा-गान्धिका वाल्हिकक्षोदामोदमोदितदिग्मुखाः ।।८७।। वाल्हीकार्द्रसैन्धवैः। सुरभिता वाल्हीकचन्दनविलेपित वाणलिङ्गः। वार्द्धकं तु वृद्धत्वे वृद्धकर्मणि । वृद्धानां समवाये च । वृद्धस्य भावः कर्म वा वार्द्धकम् । चोरादित्वादका । वृद्धानां समूहो वा । “गोत्रोक्षव. त्सोऽकन ६-२-१२ इति अकम्। वृद्धत्वे यथा-वार्द्धके मुनिवृत्तीनाम् । वृद्धकर्मणि यथा-वार्द्धकं हास्यवर्द्धकम् । वृद्धसमवाये यथा-वार्द्धकं सेवमानस्य पुंसो बुद्धिविवर्द्धते । वालुकं हरिवालुके । वलते वालुकम् । “कञ्चुक" (उ० ५७) इति साधुः । हरिवालुकं भेषजभेदः ॥८८॥ वालुका तु सिकतासु । यथा-क्रीडन्त्येता विपुलपुलिने बालिका वालुकाभिः । वितर्कः संशयोहयोः । वितर्कणं वितर्कः । स्थाणुर्वा पुरुषो वेति संशयः तत्र यथा-समालोक्याजौ त्वां विदधति वितर्कान् प्रतिभटाः । ऊह उन्नयनम् । तत्र यथा-त्वय्यायाते वितर्कानि निदधत्त इवाभाति कम्पः पयोधेः। विपाकः परिणामे स्यादुर्गतिस्वादुनोरपि । विपचनं विपच्यतेऽस्मिन् वा विपाकः । स्वादुनि गुणे पुंसि । तद्वति वाच्यलिङ्गः। परिणामे यथा-हतविधिललितानां हा विचित्रो विपाकः । दुर्गतौ यथा-ते विपाके विपद्यन्ते दुस्सहे दुःखकोटिभिः । स्वादुनि यथा-त्वद्वचः पकमाकन्दविपाकं नाकनायिके । पचन