________________
(३८) अनेकार्थसंग्रहः सटोकः
वल्मीको नाकुवाल्मीक्यो रोगभेदेऽथ वर्णकः । विलेपने मलयजे नटे च वसुकं पुनः ।।८५।।
रोमके वसुकस्तु स्याच्छिवमल्ल्यर्कपर्णयोः ।
व्यलोकं व्यङ्ग्य वैलक्ष्याप्रियाकार्येषु पीडने ॥८६।। यथा-अपि रहसिकृतानां वाग्विहीनोऽपि जातः सुरतविलसितानां वर्णको वर्णकोऽसौ । मलयजे यथा-अङ्गंदधिवर्णकलेपशुभ्रम। (वारण) नटे यथा-वर्णकर्वणितः कर्णः स्वर्ण पूर्ण द्विपं ददौ । वसुकं पुनः ।। रौमके । वस्यते वसति वा वसुकम् । “कञ्चुकांशुक' (उ०५७) इति साधुः ।।८५।। रौमकम् रुमाभवं लवणम् । वसुकस्तु स्याच्छिवमल्ल्यर्कपर्णयोः। शिवमल्ली बकपुष्पम् । अर्कपर्णोऽर्कवृक्षः । व्यलीकं व्यङ्ग्यवैलक्ष्याप्रियाकार्येषु पीडने । विशिष्टम् अलीकं यत्र व्यलीकम् । विशेषेण अल्यते वा। "स्यमिकषि” (उ० ४६) इति ईकः। अप्रियेऽकार्ये च पुंक्लीबः। व्यङ्ग्यं ध्वन्यम, वैलक्ष्ये यथान किञ्चिदूचे स किल व्यलीकात्। अप्रिये यथा-मया न तेऽकारि मनाग्व्यलीकम् । अकार्ये यथा-सुजनोऽपि चकार स व्यलीकम् । पीडने यथा-चिरव्यलीकेन जगाम शान्तिम् । कामजदोषविपर्ययोरपि मङ्खः । कामजदोषे यथा-सेहे न गोत्रस्खलितं व्यलीकम् । विपर्यये यथा-पृष्टोऽपि सत्यं वदति व्यलीकम् ।।८६।। वार्षिकं त्रायमाणायां वर्षाभवे । वर्षासु भवं वार्षिकम् । “वर्षाकालेभ्यः" ६-३-८० इति इकण् । त्रायमाणा ओषधिः । वर्षाभवे वाच्यलिङ्गः । तत्र यथावार्षिकं संजहारेन्द्रो धनुर्जेवरघुर्ददौ । अथ वाल्हिकः। देशभेदेऽश्वभेदे च वाल्हिकं हिङ्ग कुङ्कमम् वाल्हिकवत् । वल्हते वाल्हिः । “पदिपठि (उ०६०७) इति इ: । बाहुलकात् दीर्घः स्वार्थे के वाल्ही (ल्हि)कः। "सृणीकास्तीक' (उ० ५०) इति ईके वाल्हीकः ।