SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः लम्पाको लम्पटे देशे लासको केकिनर्तको । लूनकस्तु पशौ भिन्ने लोचको नीलवाससि ।।८२।। कज्जले मांसपिण्डेऽक्षितारे स्त्रीभालभूषणे । निर्बुद्धौ कर्णिकामोचाज्यासुभूलथचर्मणि ।।८३।। वराकः शोच्यरणयोः वर्तकोऽश्वखुरे खगे। वञ्चको जम्बुके गेहनकुले खलधूर्तयोः ।।८४।। वा लोचकः । दशस्वर्थेषु । निर्बुद्धौ वाच्यलिङ्गः । नीलवाससि गोपीनां चतुर्हस्तप्रमाणनीलवस्त्रे यथा पुष्पेक्षणैर्लम्बितलोचकैर्वा मधुव्रत वातवृतैर्वतत्यः ।।८२॥ शेषेषु यथा-लोचक: कस्य रोचकः ।।८३।। वराक: शोच्यरणयोः । वृणीते वराकः । "वृद्भिक्षि" ५-२-७० इति टाकः । वरेरक्यतेऽत्रेति वा। शोच्ये वाच्यलिङ्गः। तत्र यथा-भ्रमति विरहखिन्नश्चक्रवाको वराकः । रणः सङ्ग्रामः । वर्त्तकोऽश्वखुरे खगे। वर्त्तते वर्तकः । अश्वखुरे यथा-वर्तकक्षुण्णभूगतः । खगे खगविशेषे यथा-तदन्धकवर्तकीयं काकतालीयं यन्मूर्खमिन्त्रेषु क्वचित्कार्यसिद्धिः। अत्र हि अन्धकश्च वर्त्तकश्च अन्धकवर्तकं तत्तुल्यमन्धकवर्तकीयम् । वञ्चको जम्बुके गेहनकुले खलधूर्तयोः । बञ्चयति वञ्चकः । खलधूर्तयोर्वाच्यलिङ्गः । चतुर्वर्थेष्वपि यथावञ्चकरावृतान्तास्ते दुर्गमा वनभूमृतः । वल्मीको नाकुवाल्मीक्यो रोगभेदे । वलने वल्मीकः । “सृणीकास्तीक" (उ० ५०) इति साधुः । नाको वामलूरे पुंक्लीबः । तत्र यथा-वल्मीकानात्प्रभवति धनुः खण्डमाखण्डलस्य । वल्मीको प्राचेतसे यथा-पीयूषमिव नालीकं वल्मीकस्य कवेर्वचः (गिरः) । रोगभेदे रोगविशेषे यथा-असाध्यः पादवल्मीकः । अथ वर्णकः। विलेपने मलयजे नठे च (वारणे च) वर्णयति वर्णकः ॥८४॥ विलेपने मलयजे च पुंक्लीबः । विलेपने
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy