________________
(३६) अनेकार्थसंग्रहः सटीकः
राजिका पङ्क्तौ रेखायां केदारे राजसर्षपे । रुचकं तु मातुलिङ्गे निष्के सौवर्चलेऽपि च ॥८॥ *रूपकं नाटकायेषु काव्यालङ्कारधूर्तयोः । रेणुका तु हरेण्वां स्याज्जमदग्नेश्च योषिति ॥८१॥
पेषणपाषाणेऽपि ॥८०।। रूपकं नाटकायेषु काव्यालङ्कारधूर्तयोः । रूप्यते रूपकम् । “ कीचक" (उणादि ३३) इति साधुः । रूपयति वा । नाटकाद्येषु यथा-सत्यार्था भारती यस्य दशरूपकसंश्रया। काव्यालङ्कारे यथा-तद्रूपकमभेदो य उपमानोपमेययोः । धूर्ते शठे वाच्यलिङ्गः। सुवर्णादिमुद्रायामपि । यथा-तदपि साम्प्रतमाहररूपकम् । रेणुका तु हरेण्वां स्याज्जमदग्नेश्च योषिति।। रेणुप्रतिकृतिः रेणुका, रणति वा । “कञ्चुक" (उ०५७) इति साधुः । हरेणुर्गन्धद्रव्यम् । जमदग्नियोषिति यथा-अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठवाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥८१।। लम्पाको लम्पटे देशे । लपति लप्यते वा लम्पाकः । "मवाक श्यामाक" इति साधुः । लम्पटे वाच्यलिङ्गः । तत्र यथा-लम्पाक: पाकशासनः। देशे यथा-लम्पाकीनां किरन्तश्चि कुरविरचनाम् । लासको केकिनर्तकौ । लसति लासकः । नर्तके वाच्यलिङ्गः । द्वयोर्यथा-पयोदमुरजप्वनौ लसति ध्लासको नृत्यति । लूनकस्तु पशौ भिन्ने । लून एव लूनकः । " लूनवियावात्पशी" (७-३-२१) इत्यनेन यावादित्वाद् वा कः भिन्ने वाच्यलिङ्गः। लोचको नीलवाससि । कज्जले मांसपिण्डेऽक्षितारे स्त्रीभालभूषणे। निर्बुद्धौ कणिकामोचाज्यासुभ्रू लथचर्मणि ।। लोचते लोचयति * मु० रोचनायां विडङ्गे च मङ्गलद्रव्यदन्तयोः । अवश्याभरणे लास्ये प्रोत्कटेऽपि प्रकीर्तितः ॥