________________
तृतीयः काण्डः
NAVAAAAAA
-
-
संशये चेलनाग्रे स्त्री वस्त्रभेदे पटाञ्चले । रजको धावकशुको रसिकाकटिसूत्रके ।।७८।। रसनायां रसालायां रात्रकं पंचरात्रके ।
रात्रकस्तु पणवधूगृहान्तवर्षवासिनि ॥७९।। . "नृतूवनज: शिल्पिन्यकट्' । धावको निर्णेजकः । तत्र यथारजकशिलातलसदृशं यासां जघनं च वदनं च। शुक: शुकविशेषः । रसिका कटिसूत्रके । रसनायां रसालायां । रसयति रसिका रसोऽस्त्यस्यां वा । कटिसूत्रम् मेखला ॥७८।। रसना जिह्वा । रसाला शिखरिणी। रात्रकं पञ्चरात्रके । पञ्चानां रात्रीणां समाहारः पञ्चरात्रकम् । “संख्यातैक” ७-३-११९ । इति अत् समासान्तः । पञ्चरात्रमेव पञ्चरात्रकम् । स्वार्थेकः । पञ्चरात्रैकदेशो रात्रकं भामावत् । रात्रकस्तु पणवधूगृहान्तवर्षवासिनि । रात्रीराचक्षाणो रात्रकः । णिजन्ताण्णकः ।।७९।। राजिका पङ्क्तौ रेखायां केदारे राजसर्षपे । राजिरेव राजिका । राजते वा । पक्तौ यथा-परिरराज मतङ्गजराजिका। रेखायां यथा-अराजके भूर्जदले लिलेख । केदारो वप्रः । राजसर्षपे यथा-जुहोति वह्नौ लवणं सराजिकन् । रुचकं तु मातुलिङ्गे निष्के सौवर्चलेऽपि च। रोचते रुचकम् । “ध्रुधून्दि" (उ०२९) इति किदकः । निष्के मातुलिङ्गे च पुंक्लीबः । मानुलिङ्गे यथा पीतवत्यभिमते मधुतुल्यस्वादमोष्टरुचकं चिदिदक्षौ। निष्के xवक्षोविभूषणे यथा-स्वस्तिकादिसमाकारं रुचकं रुचिमद्विदुः । ललामन्यपि मंखः । ललामरत्नं तत्र यथा-अधररुचकं चन्दन* तत्प्रतिपादकोग्रन्थोऽपि पञ्चरात्रकम् । x यद्यपि लिङ्गविदो भूषा|वेयकं व्याख्यान्ति तथापि अनेकार्थकृत उरोवि
भूषणमपि ग्रैवेयकमामनन्तीति कृत्वा निष्केऽपि पुक्लीबत्वम् ।