________________
(३४)
अनेकार्थसंग्रहः सटीक:
nnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnnn.
मोचको मोक्तकदलीशिग्रुद्रुमविरागिषु ।। मोदको हर्षुलो खाद्ये यमको यमजे व्रते ।।७६।। यमकं वागलङ्कारे याजको राजकुञ्जरे । याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः ॥७७।।
मेचकी ।।७५।। मोचको मोक्तृकदलीशिग्रुद्रुमविरागिषु । मुञ्चति मोचकः। चतुर्षु अर्थेषु । विरागी मुमुक्षुः । तत्र मोक्तरि च वाच्यलिङ्गः । मोक्तरि यथा- बीडसङ्कोचमोचकः । शेषेषु यथामोचकरञ्चितं वनम् । मोदको हर्षले खाद्ये । मोदतेऽसौ मोदयति वा मोदकः । हर्षुलो हर्षवान् । हर्षहेतुर्वा । तत्र वालिङ्गः। खाद्ये लड्डुके पुंक्लीबः । द्वयोर्यथा-मुदिता मोदकमुदितं रवीन्दुकवलंकगृध्नुमतिभीमम् । यमको यमजे व्रते । यम एव यमकः । यमजो युग्मजातः। तत्र वाच्यलिङ्गः। द्वयोर्यथा-नकुल: सहदेवश्च यमको यमकस्थितौ ॥७६।। यमकं वागलकारे । यमौ समजातौ तत्प्रतिकृतिर्यमकम् । वागलङ्कारे । शब्दालङ्कृतौ । यथा-अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः। यमकं पादतद्भागवृत्तितद्यात्यनेकताम् । याजको राजकुञ्जरे। याज्ञिके च। यजति याजयति वा याजकः । राजकुञ्जरो भूपश्रेष्ठः । याज्ञिको यज्ञक्रियाज्ञाता। द्वयोर्यथा-याजकः पूज्यते न कैः । युतकं तु यौतके युग्मयुक्तयोः । संशये चलनाग्रे स्त्रीवस्त्रभेदे पटाञ्चले । युतौ कायति र तमेव वा युतकम्। युक्ते वाच्यलिङ्गः । यौतकं युतयोर्वधूवरयोर्देयम् । तत्र युग्मे युक्ते च यथा-हस्त्यश्वरत्नयुतकं युतकाय (युग्माय) देयम् । चलनवण्डातक: तस्य ग्रं चलनाग्रम् । स्त्रीवस्त्रभेदः । परिधानान्तरपट:। रजको धावकशुकौ। रजति रजकः ।