________________
तृतीयः काण्ड: मोने मृत्पात्रभेदे च मातृका करणेश्वरे ।। मातृवर्णसमाम्नायोपमातृष्वथ मालिका ॥७४। पक्षिमल्ले सरिभेदे अवेये पुष्पदामनि ।।
*मेचकः श्यामले कृष्णे तिमिरेबहिचन्द्रके ॥७५।। हंसभेदो मलिनचञ्चुचरणः । मल्लिका कुसुमान्तरे मीने मृत्पात्रभेदे च । कुसुमान्तरं विचकिलम् । तत्र यथा-उपययौ विदधन्नवमल्लिकाः शुचिरसो चिरसौरभसम्पदः ॥७३।। मीनो मीनभेदः । मृत्पात्रभेद: शरावः । तत्र यथा-मल्लिकांकितकरा विविशुस्ताः । वाद्यभेदेऽपि मङ्खः-यथा-मल्लिका झल्लरीध्वनिः । मातृका करणेश्वरे । मातृवर्णसमाम्नायोपमातृषु । मातृप्रतिकृतिर्मातृका मातैव वा। करणानि इन्द्रियाणि तेषामीश्वरः, आत्मकरणेश्वरः । तत्र यथा-दुर्ज्ञानं मातृकातत्वम् । शेषेषु यथा-विश्वमातृकया विश्वं ज्ञापितं सकलाः कलाः। अथ मालिका ।। पक्षिमल्ले सरिभेदे ग्रैवेये पुष्पदामनि । मलते मालिका मालेव वा ।।७४।। पक्षिमल्ल: पक्षिविशेषः । सरिद्भेदो नदीविशेषः । ग्रैवेयं ग्रीवाभरणम् । तत्र यथा-कण्ठस्थितया विमलप्रश्नोत्तररत्नमालिकया। पुष्पदामनि यथा-मौलिश्चम्पकमालिकाव• लयितः । मेचक: श्यामले कृष्णे तिमिरे बहिचन्द्रके । मच्यते मेचकः । “कीचकपेचक" (उणादि ३३) इति साधुः श्यामलकृष्णयोर्वर्णविशेषयाः पंक्लीबः । तद्वति वाच्यलिङ्गः । श्यामलं नीलम् । कृष्णम् असितम् । तयोर्यथा-गजकदम्बकमेचकमुच्च(मुचक)नभसि वीक्ष्य नवाम्बुदमम्बरम् । तिमिरे बहिचन्द्रके च यथा-जलदमेचककञ्चकिता दिशोः भृशमवेक्ष्य विनृत्यति
* मामलं तु मदीये स्यान्मामाको मातुले स्मृतः । मेचकः० ।