________________
(३२)
अनेकार्थसंग्रहः सटीक:
यवान्यां घनसारे च भूनिम्बे भूस्तृणेऽपि च । भूमिका तु रचनायां रूपान्तरपरिग्रहे ।।७१।। मशकः क्षुद्ररुग्जन्तुभेदयोर्मधुकं वपुः । मधुयष्टिश्च मधुको बन्दिश्रीवदपक्षिणोः ॥७२॥
मण्डूको मण्डूकपर्यों मण्डूको भेकशोणको । - मल्लिको हंस भेदे स्यात् मल्लिका कुसुमान्तरे ॥७३॥ पञ्चस्वर्थेषु । कटफलौषधं श्रीपर्णी ॥७०॥ यवानी दुष्टो यवः । घनसार कर्पूरः। भूनिम्बः किराततिक्तः। भूस्तृणं छत्रा। भूमिका तु रचनायां रूपान्तरपरिग्रहे । भूमिरेव भूमिका । रचनायां यथा- आद्या प्रासादभूमिका । रूपान्तरपरिग्रहे यथा-अथोपपत्ति छलनापरोपरामवाप्य शैलूष इवष भूमिकाम् । ॥७१॥ मशकः क्षुद्ररुग्जन्तुभेदयोः। मशति मशकः । “द क न" ( उ० २७) इति अकः। जन्तुभेदे यथा-यामिन्यां यामि स्वपिमि ननु निर्देशमशके। मधुकं त्रपु मधुयष्टिश्च मचते मधुकम् । “कञ्चुकांशुक" (उ० ५७) इति. साधुः। त्रपु वङ्गम् । भधुयष्टिर्मधुकाष्ठम् । तत्र स्त्रीक्लीबः। मधुको बन्दिश्रीवदपक्षिणोः। बन्दी बन्दिभेदः । यच्छाश्वतः मधुका बन्दिनः केऽपि । श्रीवदारव्यः पक्षी श्रीवदपक्षी ॥७२॥ मण्डूकी मण्डूकपर्यो । मण्डति मण्ड्यते वा मण्डूकी। "मृमन्यजि” (उ० ५८) इति उकः । गौरादित्वाद् डीः । मण्डूकपर्णी ओषधिः । मण्डूको भेकशोणको। भेके यथा-तावद्गर्जसि मण्डूकः कूपमाश्रित्य निर्भयः । शोणको नदभेदः । मल्लिको हंसभेदे स्यात् । मल्लति मल्लिकः । “क्रीकल्यलि'' ( उ० ३८) इति बहुवचनादिकः । ___मधका बन्दिनः कोऽपि । मण्डुकी०
।।