SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्ड: विडङ्गे कलधौते च भ्रामक: फेरुधूर्तयोः । सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे ॥६९।। महालक्षणसम्पूर्णपुरुषे करपत्रके । रोहिते शाकभेदे च भूतीकं कटफलौषधे ॥७०॥ वा बालैव वा। कर्णभूषणे यथा-बिभ्रती तिलकं भाले श्रवसोः स्वर्णबालिकाम् (कर्णभूषणेऽङ्गलीये च पुंक्लीब इति लिङ्गविदः मङ्खाद्यनेकार्थेषु स्त्री।) पिञ्छोला ओषधिः । अङ्गलीयेऽपि मङ्खः । तत्र वालुकायां सिकतायां च यथा-सिन्धुर्वीचिकरानुवाहबहलप्रौढोल्लसद्बालिकान् । बालायां यथा-बालिकारचितवस्त्रपुत्रिकाक्रीडनेन सदृशं तदर्चनम् । कङ्कणेऽपि मङ्खः। यथा-बालिकाङ्कितप्रकोष्ठः । भस्मकं रुजि । विडङ्गे कलधौते च । भस्मयतीति भस्मकम् । भस्मप्रतिकृतिर्वा । रुजि रोगे यथा-भस्मके भस्मतां याति समस्तं भक्षितं यतः ॥६८। विडङ्गमौषधम् । कलधौतं रूप्यम् । ग्रहविशेषेऽपि । तत्र पुंसि । यथा-प्रतिपालय नाथ नाडिकाद्वितयं सम्प्रति भस्मकोदयः । भ्रामकः फेरुधूर्तयोः । सूर्यावर्तेऽश्मभेदे च । भ्रमति भ्रामकः बाहुलकाद् वृद्धिः । फेरुः शृगालः । धूर्तो वञ्चकः । तत्र वाच्यलिङ्गः । सूर्यावर्तोभेषजभेदः। अश्मभेदे यथा-भ्रामको भ्रमयत्ययः। भालाङ्कः कच्छपे हरे। महालक्षणसम्पूर्णपुरुषे करपत्रके। रोहिते शाकभेदे च । भालेऽङ्कोऽस्यासौ भालाङ्कः, भाल्यते वा । "मवाका" (उ० ३७) इति साधुः । कच्छपः कूर्मः । हरः शम्भूः ॥६९।। करपत्रक क्रकचम्। रोहितो मत्स्यभेदः । भूतीकं कटफलौषधे । यवान्यां घनसारे च भूनिम्बे भूस्तृणेऽपि च । भवति भूतीकम् । “सृणीक" (उ० ५०) इति साधुः ।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy