________________
AAAAnnxnnnnwwwwwwww
(३०) अनेकार्थसंग्रहः सटीक:
पेचकः करिलाङ्गलमूले घूकेऽथ पेटकम् । मञ्जूषायां समूहे च बहुको जलखादके ॥६६॥ दात्यूहे कर्कटेऽर्के च बन्धूकः पोतसालके । बन्धूजीवे बन्धकस्तु सत्यङ्कारेऽथ बन्धकी ॥६७।। स्वैरिण्यां च करिण्यां च बालिकाकर्णभूषणे ।
पञ्छोलायां वालुकायां बालायां भस्मकं रुजि ॥६८॥ लिङ्गविदः । तत्र यथा-न्यधत्त वटपृष्ठतः कनकपेटकं तस्करः । समूहे यथा-घटितषट्पदपेटकपाटला। बहुको जलखादके दात्यूहे कर्कटेऽर्के च। बहु भक्ष्यं के जलमस्य बहुकः । बहुः कायति वा । चतुर्वर्थेषु । जलखादकदात्यूही पक्षिविशेषौ ॥६६॥ कर्कटः कुलीरः । अर्को रविः । बन्धूकः पीतसालके । बन्धूजीवे । बध्यते बन्धूकः । “मृमन्यजि" इति कुकः (उकः)। पीतसालोऽसनः, बन्धुजीवे यथा-नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्धयाधरे । बन्धकस्तु सत्यङ्कारे । बध्नाति बन्धकः । "द क नृ" ( उ० २७) इत्यकः । पुंसि । मङ्खस्तु कुलटेभी च बन्धकी। आधावस्त्री बन्धिकानुबन्धकारिणि वाच्यलिङ्गा इति पुंक्लीबत्वमाह। सत्यंङ्कारे आधौ यथा-न वृद्धिबन्धके नष्टे सर्वनाशेन तद्वनम् । अथ बन्धकी । स्वैरिण्यां च करिण्यां च । गौरादित्वाद् ङीः ।।६७।। स्वैरिण्यां यथा-बन्धक्यो यं प्रशंसन्ति स राजन् पुरुषोऽधमः । करिण्यां यथा-बन्धकी निकटमभ्रभूपतिः । बन्धकारिण्यपि संसारबन्धिका माया। बालिका कर्णभूषणे । पिञ्छोलायां वालुकायां वालायाम् । बाल्येव बालिका बलते * बालकः पुनः शिशोमुर्खेऽश्वगजयोवलिधौ भस्मकं रुजि० । ४ अत्र आधिपर्यायः सत्यंकारो न तु लोकप्रसिद्ध सत्यकारे ।