________________
तृतीय : काण्ड :
शैवे वृक्षप्रभेदे च पुत्रिका यावतूलिके । पाञ्चालिकादुहित्रोश्च पूर्णकः स्वर्णचूर्णके ॥६४॥ पूर्णिका नासिकाच्छिन्यां पृथुकश्चिपिटेऽर्भके | पदाकुश्चित्रकव्याघ्र - वृश्चिकेषु सरीसृपे ॥ ६५।।
(२९)
R
"
6
सा कन्दुकैः कृत्रिमपुत्रकैश्च । पुत्रिका यावतूलिके । पाञ्चालिका - दुहित्रोव । पुत्र्येव पुत्रिका । यावतूलकम अलक्तपोलिका पाञ्चालिका काष्ठदन्तादिनिर्मिता स्त्रीप्रतिकृतिः तत्र यथातप्तायः पुत्रिकाः क्वापि स्मारितान्यवधूरतम् । दुहिता तनया । पूर्णकः स्वर्णचूर्ण (ड) के । पूर्ण एवेति पूर्णकः । स्वर्णचूडकः पक्षिविशेषः ||६४ || पूर्णिका नासिकाच्छिन्न्याम् । नासिका छिन्ना यस्याः सा नासिका च्छिन्नी । “ स्वाङ्गादेरकृत २--४-४६ । इति ङीः । पृथुकश्चिपिटेऽर्भके । पृथुकाय पृथुकः । प्रथते वा । " कञ्चुकांशुक" ( उ० ५७ ) इति साधुः । चिपिट आद्रसस्याभ्योषः । तत्र यथा - वृथा पृथुकमर्दनं हलभृता परार्थं कृतम् । अर्भके यथा - क्वचित्क्रीडकोड प्रतिभयपरित्रस्त - पृथुकाः । पृदाकुचित्रकव्याघ्रवृश्चिकेषु सरीसृपे । पिपत्ति पृदाकुः । "सृपृभ्यां दाकुक्" ( उ० ७५६) चतुर्ष्वर्थेषु यथा - सदा पृदाकुः कुरुते हि शङ्काम् || ६५ || पेचकः करिलाङ्गलमूले घूके । षच्यते पेचकः । “कीचक पेचक" ( उ० ३३ ) इति साधुः करिलाङ्गलमूले यथा—करीन्द्रो मेचकैः ( करीन्द्रो वर्णकैः) सान्द्रैकीभूतचकः । घूके यथा-खं पेचः कञ्चुकितं रणेषु । अथ . पेटकम् । मञ्जूषायां समूहे च । पेटति पेटकः । “छिदिभिदिपिटेर्वा" ( उ० ३० ) इति अकः । पेट एव वा । स्वार्थिककप्रत्ययान्तस्तु समूहे त्रिलिङ्गः । मञ्जूषांयां क्लीबे । पुल्लिङ्गोऽयमिति
।
"1