________________
irrorarrrrrrrrrrrrrr
(२८) अनेकार्थसंग्रहः सटोक:
पुलाको भक्तसिक्थे स्यात्संक्षेपासारधान्ययोः । पुष्पकं मृत्तिकाङ्गारशकट्यां रत्नकङ्कणे ॥६२॥ कासीसेश्रीदविमाने नेत्ररोगे रसाञ्जने । लोहकांस्ये रीरिकायां पुत्रकः शरभे शठे ॥६३।।
हरितालकम् (हरितालम्) (हरिताल:)। कृमौ कीटे यथा-वर्त्मनां पुलकवृश्चिकस्पृशाम् ॥६१॥ पुलाको भक्तसिक्थे स्यात्संक्षेपासारधान्ययोः । पोलति पुलाकः । “शुभिगृहि" (उ० ३५) इति किदाकः । भक्तसिक्थे यथा-स्थालीपुलाकन्यायेन कुर्याद् गुण परीक्षणम्। संक्षेप: क्षिप्रं तत्र यथा-पुलाककारी . विपुलाशयः स्यात् । असारधान्ये, यथा- पुलाका इव धान्येषु । पुष्पकं मृत्तिकाङ्गारशकट्यां रत्नकङ्कणे । कासीसेश्रीदविमाने नेत्ररोगे रेसाञ्जने । लोहकांस्ये रीरिकायाम् । पुष्प्यति पुष्पकम् । पुष्पप्रतिकृतिर्वा अष्टस्वर्थेषु । मृन्मयी अङ्गारशकटी। मृत्तिकाङ्गारशकटी । रत्नखचितं कङ्कणम् रत्नकङ्कणम् ॥६२।। सीसं धातुभेदः । श्रीदविमाने यथा-निरस्तगाम्भीर्य्यमपास्तपुष्पकः प्रकम्पयामास न मानसं न सः। नेत्ररोगे यथाअसौ रसः पुष्पकनाशहेतुः । रसाञ्जनम् औषधभेदः । लोहेन मिश्रं कांस्यं लोहकांस्यम् । रीरिका पित्तलभेदः । पुत्रक: शरभे शठे शैवे वृक्षप्रभेदे च । पुत्रं कृणाति हिनस्ति पुत्रकः । “क्वचित्" इति डः । पुनाति वा । “कीचक" (उ० ३३ ) इति साधुः । कृत्रिमः पुत्रो वा। "तनु पुत्र" (७-३-२३) इति कः । शरभोऽष्टापदः । शठोऽनृजौ ॥६३॥ शैवे शिवमतदीक्षिते च वाच्यलिङ्गः। शवे यथा - समयी साधकश्चव आचार्यश्चापि पुत्रकः । वृक्षप्रभेदः पुत्रप्रेम्णा सिक्तो वृक्षः । कृत्रिमसुतेऽपि यथा