________________
तृतीयः काण्ड: प्रियकस्तु चञ्चरोके नीपे कश्मीरजन्मनि । प्रियङ्गो चित्रहरिणे पोतसालतरोरपि ॥५९॥ *पिष्टको नेत्ररोगे स्याद् धान्यादिचमसेऽपि च । पिण्याकः कुङ्कमे हिङ्गौ सिरके तिलचूर्णके ॥६०॥ पुलको गजान्नपिण्डे रोमाञ्चे प्रस्तरान्तरे ।
अश्रुराज्यां मणिदोषे गल्वर्के तालके कमौ ॥६१॥ कदम्बः । कश्मीरजन्म घुसृणम् । प्रियङ्गः फलिनी। चित्रहरिणे यथा-प्रचलितैः परितः प्रियकवजैः। पीतसालतरुरसनः । तत्र यथा-उन्निद्र प्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ॥५९।। पिष्टको नेत्ररोगे स्याद्घान्यादिचमसेऽपि च । पिनष्टि पिष्यते वा पिष्ट: । पिष्ट एव पिष्टकः । धान्यादेश्वमसे चूर्णविशेषे । यथा-कष्टेन पिष्टकैस्तैलं मौलेरुत्तार्यते तथा। पिण्याकः कुङ्कमे हिङ्गो सिरके तिलचूर्णके । पिनष्टि पिण्याकः । “पिषेः पिन् पण्यौ च" (उ० ३६) इत्याकः । पुंक्लीबः । कुङ्कमे हिङ्गौ सिरके च यथा- पिण्याकगन्ध इव तुष्टिकृदस्य सोऽभूत् । तिलचूर्णे यथा - पिण्याकान्नाशिनीनांहि पयो गुरुतरं भवेत् । ॥६०॥ पुलको गजान्नपिण्डे रोमाञ्चे प्रस्तरान्तरे । अश्रुराज्यां मणिदोषे गल्वर्के तालके कृमौ । पोलति पुलकः । "धू धून्दि" (उ० २९) इति किदकः । अष्टस्वर्थेषु । गजान्नपिण्डे यथा-पुलककवललोल: खेलति व्यालराजः । रोमाञ्चे पुंक्लीबः । तत्र यथा-भृशस्विदः पुलकविकासिमूर्तयः । प्रस्तरान्तरे लक्ष्णपाषाणे यथा-पुलकपृष्टधौताम्बरः। अश्रुराजी नयनाम्बुधारा । मणिदोषे यथापुलकत्रासविद्धादिदोषैर्मणिरदूषितः । गल्वर्कश्चषकः । तालकं *मु० म०-पितक: स्यात्तु विस्फोटे मञ्जुषायामपीष्यते।