SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ (२६) अनेकार्थसंग्रहः सटीकः पाटको रोधसि ग्रामैकदेशेऽक्षादिपातके । वाद्यभेदे महाकिष्को मूल्यस्यापचयेऽपि च ॥५७॥ पालङ्कः शाकभेदे स्यात्सल्लकयां पाजिपक्षिणि । पिनाकः शिवकोदण्डे पांसु वृष्टित्रिशूलयोः ॥८॥ पूर्वां रुचमम्बुराशेः । प्रपातो भृगुः । सौप्तिकं वा । प्राणको जीवकतरौ सत्वजातीयवोलयोः । प्राणिति प्राणकः । प्राण एव वा । जीवकतरुव॒क्षभेदः । सत्वजातीयः सत्वप्रकारः तत्र वाच्यलिङ्गः । वोलो गन्धरसः ।।५६।। पाटको रोधसि ग्रामैकदेशेऽक्षादिपातके । वाद्यभेदे महाकिष्कौ मूल्यस्यापचयेऽपि च । पाटयति पटति वा पाटकः । पञ्चस्वर्थेषु । रोधस्तटम् । ग्रामैकदेशे यथा-जलौकः काङ्क्षया याति साधुश्चण्डालपाटकम् । अक्षादीनां द्यूते पातयिता अक्षादिपातकः । वाद्यभेदो वादिनम् । महाकिष्कुः प्रमाणविशेषः । मूल्यस्यापचये यथा-पाटकेनाप्यते कर्म ॥५७॥ पालङ्कः (पालकं) शाकभेदे स्यात्सल्लक्यां पाजिपक्षिणि । पाल्यते पालङ्कः । “निष्क तुरुष्क" (उ० २६) इति साधुः । शाकभेदे यथा-पालङ्कशाकं सुकृती न भुङ्क्ते । सल्लकी गजप्रिया। पाजिपक्षी पक्षिभेदः । पिनाकः शिवकोदण्डे पांसुवृष्टित्रिशूलयोः । पिनष्टि पिनाकः । “पिषेः पिन् पिण्यौ च" (उ० ३६) इति आकः । पुंक्लीबः । शिवकोदण्डे यथा-कुर्यां हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये । पांसुवृष्टिधूलिवृष्टि: । त्रिशूलं शैवमेवात्र ॥५८॥ प्रियकस्तु चञ्चरीके नीपे कश्मीरजन्मनि । प्रियङ्गौ चित्रहरिणे पीतसालतगेर(राव) पि प्रियं कायति प्रियकः । प्रीणाति वा । “कीचक" (उ० ३३) इति साधुः । चञ्चरीके भ्रमरे स्त्रीपुंसः । नीपः
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy