________________
तृतीयः काण्ड: ...
(२५)
nnnnnnnnnnnnnnn
AAAAmar/
*पर्यको मञ्चपर्यस्त्योः प्रतीकोऽङ्गप्रतीपयोः । पताकाङ्कध्वजे केतौ सौभाग्ये नाटकांशके ॥५५॥ पातुको जलमातङ्गे पतयालुप्रपातयोः ।
प्राणको जीवकतरौ सत्वजातीयबोलयोः ॥५६॥ सर्पकञ्चुके . यथा-वेल्लनिर्मोकवल्लीनिबिडनिगडितानोकहक्रोडनीडक्रीडन्निःशङ्कघूकव्यतिकरमुखराभूमयो भीषयन्ति ।।५४।। पर्यको मञ्चपर्यस्त्योः । पर्यच्यते पर्यंकः । परिगतोऽङ्कम्वा । मञ्चे यथा - नागपर्यङ्कशायी । - पर्यस्तौ परिकरे यथापर्यङ्कबन्धस्थिरपूर्वकायम्। प्रतीकोऽङ्गप्रतीपयोः “प्रातिप्रतीकः सृणीक" इति साधुः । प्रतीपे वालिङ्गः । अङ्गम् अवयवः । तत्र यथा-प्रति प्रतीकं प्रविभूषितायाः। प्रतीपे प्रतिकूले यथा-क्षितिधव तव हस्ती सुप्रतीकप्रतीकः । प्रदीपेऽपि यथाप्रतीकाभीशुनीकाभिस्तमिस्र सकलीकृते । पताकाङ्कध्वजे केतौ सौभाग्ये नाटकांशके । पतति पताका । "शलिवलि” (उ०३४) इति आकः । अङ्कध्वजश्चिन्हध्वजः । तत्र यथा-पताकाभिवितय॑न्ते निकेताः पृथिवीभुजाम् । केतौ सोभाग्ये च यथा-रम्या इति प्राप्तवतीः पताकां रागं विविक्ता इति वर्द्धयन्ती । नाटकांशके यथा-बीजं बिन्दुः पताका च प्रकरीकार्यलक्षणाः । अर्थप्रकृतयः पञ्च ता एताः परिकीर्तिताः ॥५५॥ पातुको जलमातङ्गे पतयालुप्रपातयोः। पतनशील: पातुकः । “लषपतपदः" ५-२-४१ । इति उकण् । पतयालौ वाच्यलिङ्गः । जलमातङ्गो जलहस्ती। पतयालौ यथा-भेजेऽभितः पातुकसिद्धिसिन्धोरभूत* मु० मू० । नीलिका नीलिनी क्षुद्ररोगशेफालिकास्वपि । पराकस्तु व्रते खड्ने प्रसेकः सेचने च्युतौ ।। पर्यो०