________________
(२४)
अनेकार्थसंग्रहः सटाक:
द्विपे पोटगले चापि नर्तकी लासिका द्विपी । नालीकोऽज्ञे शरे शल्ये नालीकं पद्म तद्वने ॥ ५२ ॥
नायको मणिभिनेतृ प्रधानेष्वथ नालिका । नाले काले चुल्लिरन्ध्र विवरे वेणुभाजने ॥५३॥ निपाक: पचने स्वेदासत्कर्मफलयोरपि । निमको व्योम्नि सन्नाहे मोक्षके सर्पकञ्चुके ॥ ५४ ॥ सौ नर्त्तकी प्रगल्भा । नालीकोऽज्ञे शरे शल्ये । ल् गन्धे । नलति नालीकः । "सृणीकास्तीक" ( उ० ५० ) इति साधुः । अज्ञे वाच्यलिङ्गः । तत्र यथा- विवृतेनापि शास्त्रेण नालीकः किं करिष्यति । शरे शल्ये च यथा - भूपालमौलिना तेन नालीकै: कीलितं बलम् । नालीके पद्म तद्वने । पद्म पुंक्लीब: । तत्र यथानालीकमालां मलते स मौलौ । तेषां पद्मानां वनं तद्वनम् ॥५२॥ नायको मणिभिनेतृ प्रधानेषु । नयति नायकः । नेतृप्रधानयोर्वाच्यलिङ्गः । त्रिष्वपि यथा - एकार्थतन्तुप्रोतायां नायको नायकायते । अथ नालिका | नाले काले चुल्लिरन्ध्रे विवरे वेणुभाजने । नात्येव नालिका | नलति वा । पञ्चस्वर्थेषु नाले यथा - पीतं नालिकया जलम् । काले यथा - क्षणैः षड्भिश्च नाडिका । वेणुभाजने यथा - धान्यावापं विदधतितरां हालिका नालिकाभिः । निपाक: पचने स्वेदासत्कर्मफलयोरपि । निपचनं निपच्यतेऽनेन वा निपाक: । पचने यथा - जातस्तकः (तः ) शाकनिपाककालः । स्वेदो घर्माम्बु । असत्कर्मफलं दुष्कर्मफलम् । निर्मोको व्योम्नि सन्नाहे मोक्षके सर्पकञ्चुके । निर्मुच्यतेऽनेन निर्मोकः । व्योयोम्नि यथा-निर्मोककोकनदतुल्यमिदं वचस्ते । मोक्ष एव मोक्षकः । तत्र सन्नाहे च यथा - शोकमोहपरोलोकः स्तोको निर्मोक तत्परः ।