________________
तृतीयः काण्डः
(२३)
धनाढ्ये धनिका वध्वां धेनुका धेनुरिभ्यपि । धेनुकं धेनुसंहत्यां करणेऽपि च योषिताम् ॥५०॥ नरको दैत्यनिरयौ नन्दकः कुलपालके ।
हर्षके विष्णुखड्ने च नर्तकः केलके नटे ॥५१॥ धनिकः । धान्यकं कुस्तुम्बुरु । धवो भर्ता ॥४९॥ धनाढ्य धनवति वाच्यलिङ्गः। तत्र यथा-धनिकेन धनं दत्तमधमर्णाय वर्द्धते । धनिका वध्वाम् । वधूः पत्नी । धेनुका धेनुरित्यपि । धेनुरेव धेनुका । धेनुर्नवप्रसूता । तत्र यथा-सा धेनुका दुग्धनिधानभूमिः। इभी हस्तिनी तस्यां यथा-आरुह्य वरधेनुकाम् । क्षुरिकायामपि मङ्खः । यथा - यौधैर्बद्धासि धेनुकैः । दैत्यविशेषेऽपि । तत्र पुंलिङ्गः । धेनुकं धेनुसंहत्या करणेऽपि च योषिताम् । धेनूनां समूहो धैनुकम् । धेनोरनञः । ६-२-१५ । इति इकण् धेनुकाया इदं वा । “तस्येदम्” ६-३-१६० । इति अण् । धेनुसंहत्यां यथा-तद्धेनुकं ध्यायति माधवस्य । योषितां करणं वात्स्यायनप्रसिद्धम् ॥५०॥ नरको दैत्यनिरयौ। नृणाति नरकः । “दृ क नृ' (उ० २७) इति अकः । द्वयोर्यथासत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्वयासिषुः । नन्दकः कुलपालके । हर्षके विष्णुखङ्गे च । नन्दयतीति नन्दकः । कुलपालकहर्षयोर्वाच्यलिङ्गः। हर्षके विष्णुखङ्गे च यथानाम्नाऽपि तस्यैव स नन्दकोऽभूत् । नर्तक: केलके नटे। द्विपे पोटगले चापि । नृत्यति नर्तकः । णकः । नटे तु "नृत्खनरञ्जः शिल्पिन्यकट" ५-१-६५ । केलके क्रीडके वाच्यलिङ्गः। नटे यथा-नर्तकेनैव नतिताः ॥५१॥ द्विपो हस्ती । पोटगल: काशः। नर्तकी लासिका द्विपी । लासिकायां यथा-द्वौ सङ्कीर्णी रचयति