________________
(२२) अनेकार्थसंग्रहः सटोकः ammarrrrrr ror तूलिका तूलशय्या स्यादालेख्यस्य च लेखनी । दर्शको दर्शयितरि प्रतिहारप्रवीणयोः ॥४७॥ द्रावकस्तु शिलाभेदे स्याद्घोषकविदग्धयोः । दारको भेदके पुत्र दीपकंस्यादलकृतिः ॥४८॥ दीपकौ दीप्तिकृद्दीपौ दीप्यकं त्वजमोदके । . मयूरशिखायवान्योर्धनिको धान्यके धवे ॥४९॥
चित्रम् । शलाकायामपि मङ्खः । यथा-गृहीत्वाञ्जनतूलिकाम् । दर्शको दर्शयितरि प्रतीहारप्रवीणयोः । दर्शयति पश्यति वा दर्शकः । दर्शयितृ प्रवीणयोर्वाच्यलिङ्गः । दर्शयितरि यथायथा-गुरवो मार्गदर्शकाः । प्रतीहारे प्रवीणे च यथा-दर्शकजननिवार्यमाणकलकलमास्थानम् ॥४७॥ द्रावकस्तु शीलाभेदे स्याद्घोषक विदग्धयोः। द्रावयति द्रवति वा द्रावकः । घोषक विदग्धयोर्वाच्यलिङ्गः । शिलाभेद: औषधम् । धोषक: पुनः पुनक्यिावर्त्तकः । विदग्धे यथा-द्रावयन्ति मनोभर्तुर्द्रावकाः केऽपि सेवकाः । दारको भेदके पुत्र । दारयति दारकः । भेदके वाच्यलिङ्गः। द्वयोर्यथा-नरेन्द्रदारकः सोऽयं मानिनीमानदारकः । दीपकं स्यादलङ्कृतिः । दीपयति दीपकम् । अलङ्कृतिरालङ्कार विशेषः । यदाह-सकृद्वृत्तिस्तु धर्मस्य प्रकृता प्रकृतात्मनाम् । सैवक्रियासु बहीषु कारकस्येति दीपकम् । दीपको दीप्तिकृद्दीपौ। दीप्तिकृति वाच्यलिङ्गः। द्वयोर्यथा- शरणमात्मभये निशि दीपकः । पक्षिभेदेऽपि । यदाह-पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपक: । दीप्यकं त्वजमोदके । मयूर शिखायवान्योः । दीप्यते दीप्यकम् । “कीचक” (उ० ३३) इत्यके साधुः । त्रयोऽप्यौषधभेदाः । धनिको धान्यके धने धनाढ्य । धनमस्त्यस्य