________________
तृतीय : काण्ड :
दैत्ये च तारकमुडौ नेत्रतन्मध्ययोरपि । तिलकोsवद्रुमभिदोः पुण्ड्रके तिलकालके ||४५ ॥ तिलकं रुचके क्लोम्नि त्रिशङ्कः शलभे नृपे । मार्जारे च तुरुष्कस्तु देशे श्रीवाससियोः ॥४६॥
(२१)
नेत्रतन्मध्ययोरपि । उडौ त्रिलिङ्गः । नेत्र #मध्ये स्त्रीक्लीब: नेत्रे क्लीबे । त्रिष्वपि यथा - निशाकरकरस्पर्शहर्षोन्मीलिततारका । अहो रागवतीसंध्या मुञ्चति स्वयमम्बरम् । तिलकोऽश्वद्रुमभिदो : पुण्ड्रके तिलकालके । तिलति स्निह्यति तिलकः । " ध्रुधून्दि" ( उ० २९) इति किदक: । पुण्ड्रके पुंक्लीबः । अश्वभित् तिलकितो हयः । द्रुमभिदि पुण्ड्रके च यथा- न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव । तिलकालको देहे कृष्णं लक्ष्म || ४५|| तिलकं रुचके क्लोनि । रुचकं सौवर्चलम् । क्लोम हृदयस्य दक्षिणे उदर्यो जलाधारः । त्रिशङ्कः शलभे नृपे । मार्जारे च । त्रयः शङ्कवोऽस्य त्रिशङ्कः । पुंसि । शलभः पतङ्गः । नृपे नृपभेदे यथा - त्रिशङ्कोरुपभोगाय न द्यौरपि न भूरपि । मार्जारो बिडाल: । तुरुष्कस्तु देशे श्रीवाससिह्नयोः । तूर्यते तुरुष्कः । “निष्क तुरुष्क" ( उ०२६) इति साधुः । सिले स्त्रीपुंसः । देशे यथा - शुष्कमुष्कस्तुरुष्केशो भीत्या तव धराधव । श्रीवाससिलो धूपौ ॥४६॥ तूलिका तूलशय्या स्यादालेख्यस्य च लेखनी । तुलति तूलिका तुलं निरस्थिकर्पासादि तस्य शय्या । तत्र यथा - सुखेन सुप्तोऽपि स तूलि - कायाम् । आलेख्यस्य चित्रस्य लेखन्यां यथा - उन्मीलितं तूलिकायेव * यद्यापि प्रतिपदपदपाठेन स्त्रीवलीबत्वंनोक्तं तथापि अनेकार्थेषु दृष्टम् । x वस्त्रं खञ्च ।