________________
(२०) अनेकार्थसंग्रहः सटीकः
व्यालग्राहे जीविका तु जीवन्त्यां वर्तनेऽपि च । झिल्लिका झिलिकेव स्याच्चीयाँ रुच्यातपस्य च ॥४२॥ विलेपनस्य च मले तक्षकस्तक्ष्णि पन्नगे । द्रुमभेदे तण्डकस्तु समस्तपदजातके ॥४३॥ तरुस्कन्धे वेश्मदारु मायाबहुलयोरपि ।
फेनखञ्जनयोश्चापि तारकः कर्णधारके ॥४४॥ बृहस्पतिः । झिल्लिका झिलिकेव स्याच्चीर्यां रुच्यातपस्य च । विलेपनस्य च मले । झमति ज्वलति वा झिल्लिका झिलिका च । “कुशिक हृदिक" (उ० ४५) इति साधुः । चीरी पक्षिभेदः । आतपस्यरुक् अतिशयेन दीप्यतेत्यर्थः ॥४२॥ विलेपनस्य मल उद्वर्तनिका। तक्षकस्तक्षिण पन्नगे। द्रुमभेदे। तक्षति तक्षकः । तक्षिणवर्द्धको यथा-तक्ष्णोति तक्षक इव दुर्वाक्यैर्दुर्जनो जनम् । पन्नगे पन्नगभेदे यथा-कर्कोट: कोटिःकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः । द्रुमभेदो वृक्षविशेषः । तण्डकस्तु समस्तपदजातके । तरुस्कन्धे वेश्मदारुमायाबहुलयोरपि । फेनखजनयोश्चापि । तडुड़ ताडने तण्डते तण्डकः । पञ्चस्वर्थेषु । समस्तपदजातके पुंक्लीबः । समस्तं कृतसमासं पदानां जातकं समूहः समस्तपदजातकम् ॥४३॥ तरुस्कन्धस्तरुसमूहः । वेश्मार्थं दारु काष्ठं वेश्मदारु । मायावहुलो मायाप्रधानः। तत्र वाच्यलिङ्गः । फेनो डिण्डीरः । खञ्जनः खजरिटः । सर्वेषु यथासमुद्रवेला वनालीव अनेकतण्डकाकुला दमयन्तीकथा। तारक: कर्णधारके । दैत्ये च। तरति तारयति वा तारकः । कर्णधारके यथा-भ्रान्तस्तीर्थानि दृष्टस्त्वं मयैकस्तेषु तारकः ॥४४॥ दैत्ये यथा-तस्मिन् विप्रकृताः काले तारकेण दिवौकसः । तारकमुडौ