________________
तृतीयः काण्डः
wwwwwmammmmmmmmmmmm
करिणः कर्णमूले च जनकः पितृभूपयोः । जम्बुके वरुणे फेरौ जतुकं हिङ्गलाक्षयोः ॥४०॥ जतुका चर्मचटका जीविको वृद्धजीविनी ।
क्षपणे प्राणके पोतसालसेवकयो मे ॥४१॥ विष्कम्भचूलिकाकास्यांकावतारप्रवेशकैः ॥३९॥ करिणः कर्णमूले यथा-रेजे व्यालावली लोला चूलिका चुम्बिचामरा । जनक: पितृभूपयोः । जनयति जनक: पितरि यथा-जनकोऽसि जनार्दन स्फुटं धर्मार्थतया मनोभुवः । भूपे भूपविशेषे यथाजनकतनया स्नान पुण्योदकेषु । जम्बुके वरुणे फेरौ । जमति जम्बुकः । “कञ्चुकांशुक" (उ० ५७) इति उके साधुः । नीचेऽपि । सर्वेषु यथा-सत्यं पौलस्त्यसिंहस्यजम्बुकः पश्चिमापतिः । जतुकं हिगुलाक्षयोः । जतु एव जतुकम् हिगुरामठम् । तत्र यथा-उपयुज्यते हि शाकेषु जतुकं न तु मूर्द्धनि । लाक्षायां यथा-सन्धानं सज्जनेनेव जतुके नैव जन्यते ॥४०॥ जतुका चर्मचटका । जतुप्रतिकृतिर्जतुका। "तस्य तुल्ये" ७-१-१०८ । इति कः । जीवको वृद्धजीविनि । क्षपणे प्राणके पीतसालसेवकयोर्दुमे । व्यालग्राहे । जीवति जीवयति जीवकः । द्रुमक्षपणकपीतसालेषु पुंसि । शेषेषु वाच्यलिङ्गः। वृद्धिजीवी कलान्तरजीवी । क्षपणः श्रमणः । प्राणकः प्राणिता । प्राणदायको वा। पीतसालोऽसनः । सेवकोऽनुजीवी। द्रुमो बन्धूकद्रुमः ॥४१॥ व्यालग्राह आहितुण्डिकः । तत्र यथा-विषयविषहतानां जीवकस्त्वं पुरारे । शेषेषु यथा-जीवकस्येदृशी गतिः । जीविका तु जीवन्त्यां वर्तनेऽपि च । जीवनं जीविका भावे णकः । जीवन्ती मधुस्रवा। वर्तने यथा-बुद्धिपौरुषहीनानां जीविकेति