________________
(१८)
अनेकार्थसंग्रहः सटीक :
चित्रकस्तु चित्रकाये द्रुमौषधविशेषयोः । चुम्बकः कामुके धूर्ते बहुगुवंश्मभेदयोः ||३८|| चुलुकी कुण्डिकामेदे शिशुमारे कुलान्तरे । चूतकः कूप आम्र े च चूलिका नाटकाङ्गके ॥३९॥
वृद्धं चौलुक्यः । चारकोश्वादिपाले स्याद्बन्धे संचारकेऽपि च । चारयति चारकः । बन्धे कारायां पुंसि । शेषयोर्वाच्यलिङ्गः । अश्वादिपाले यथा हरिगवृन्दचारकः । बन्धे यथा - संचारचारके कुतः । संचारके यथा - सारणीवारिचारकः ||३७|| चित्रकस्तु चित्रकाये द्रुमौषधविशेषयोः । चित्र एव चित्रक: । तिलकेऽपि । तत्र तु क्लीबे । तत्र चित्रकाये श्वापदे च यथानियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः । औषधविशेष यथा - मुमूर्तीः किन्तवामीभिश्चव्यचित्रकनागरैः । औषधविशेषे नपुंसकोऽयमितिलिङ्गविदः । चुम्बकः कामुके घूर्ते बहुगुर्वश्मभेदयोः । चुम्बती चुम्बकः । चतुष्वर्थेषु । अश्मभेदे पुंसि । शेषेषु वाच्यलिङ्गः । कामुकेऽश्मभेदे च यथा - वेश्या लोहशलाकेव जवाच्चुम्बति चुम्बकमे । धूर्तो वश्वकः । बहवो गुरवो यस्य स बहुगुरुः ||३८|| चुलुकी कुण्डिकाभेदे शिशुमारे कुलान्तरे । चुलुम्पति चुलुकी । " कञ्चुकांशुक" ( उ० ५७ ) इति साधुः । गौरादित्वाद्ङीः । कुण्डिकाभेदो जलभाजनविशेषः । शिशुमारो जलजन्तुविशेषः । कुलान्तरम् अन्वयभेदः । चूतकः कूप आ च । चत्यते चूतकः । " कीचक पेचक" ( उ० ३३) इति साधुः । चूत एव वा स्वार्थेक द्वयोर्यथा - चूतकानां रसं पीत्वा पान्थाः पथि सुखं ययुः । चूलिका नाटकाङ्गके । करिणः कर्णमूले च । चुलैब चूलिका स्वार्थेकः । नाटकाङ्गके यथा-: