________________
AAAAAAAAAAAAAAAAmnwww
तृतीयः काण्डः moommammomwwwwwwwwwwwwwwww
अलिञ्जिरे गुडे चापि गोरडूनग्नबन्दिनोः । खगे च चषको मद्ये सरके मद्यभाजने ॥३६॥ चलुकः प्रसृतौ भाण्डप्रभेदे चुलुको यथा ।
चारकोऽश्वादिपाले स्याबन्धे संचारिकेऽपि च ॥३७॥ अध्यात्मादित्वाद् वा इकण् । स्वर्णे यथा-गैरिकाद्रौ ययाविन्द्रः । धातौ यथा- क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गैरिकारुणः। गोलकस्तु जारतो विधवासुते । अलिजिरे गुडे चापि । गुडति गोलकः । गोल एव वा स्वार्थेकः । जारेण यो विधवायां जातः स गोलकः। यत्स्मृतिः अमृते जारजः कुण्डो मृते भर्तरि गोलकः ॥३५।। अलिजरो मणिकः । तत्र यथाघोलं गोलकगह्वरेषु परतो न्यस्यन्ति गोष्ठाङ्गनाः। गुडः सर्वतो वृत्तः । तत्र यथा-कदम्बगोलकाकारम् । गोरङ्कनग्नबन्दिनोः । खगे च । गोभिर्वचनैर्जलैर्वा रमते गोरङ्कः । “कैशीशमि" (७४९ उ०) इति कुः । नग्नो विवस्त्रः । तत्र वाच्यलिङ्गः। शेषयोः पुंसि । बन्दीसूतः । खगः पक्षिविशेषः । चषको मद्ये सरके मद्यभाजने । चषन्ति अनेन चषकः । "द कन" (उ० २७) इत्युकः । पुंक्लीबः । मद्यं धान्यपिष्टोद्भवम् । सरक ऐक्षवः । तयोर्यथा-चषकपानकलालसमानसः । मद्यभाजने यथा - फुल्लदृष्टिवदनं वनितानामब्जचाश्चषक च षडज्रिः । चलुकः प्रसृतौ भाण्डप्रभेदे चुलुको यथा । चलति चुलुम्पति च चलुकः । चुलुकः । " कञ्चुकांशुक" . (उ० ५७) इति साधुः । प्रसृतौ चुलुकः । स्त्रीपुंसः । प्रसृतौ
यथा-अगस्ति चुलुकोत्क्षिप्त-सप्तवारिधिवारिणि । भाण्डप्रभेदो ३ भाजनविशेषः । चुलुकशब्द आदिपुरुषेऽपि । यथा चुलुकस्यापत्यं