________________
अनेकार्थसंग्रहः सटाक: wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
गण्डकी तु सरिभेदे गणको ग्रहवेदिनि । गणिकेभ्यां यूथिकायां तर्कार्यां पण्ययोषिति ॥३३॥ ग्राहको ग्रहीतरि स्याद् व्याधानां घातिपक्षिणि । गान्धिको लेखके गन्धवाणिजे गुण्डकः पुनः ॥३४॥ कलोक्तौ मलने धूलौ स्नेहपात्रेय गैरिकम् ।
स्वर्णे धातौ गोलकस्तु जारतो विधवासुते ॥३शा वाच्यलिङ्गः । यथा-गणयति गगने गणकश्चन्द्रेण समागम विशाखायाः । गणिकेभ्यां यूथिकायां तर्कार्यां पण्ययोषिति । चतुर्वथेषु स्त्रियाम् । इभ्यां हस्तिन्यां यथा-आरुह्य सप्रगुणितां गणिकां नरेन्द्रः। यूथिका पुष्पलता। तर्कारी ओषधिः । पण्ययोषिति यथा-स्वगुणराफलप्राप्तेराकृष्य गणिका इव ॥३३।। ग्राहको ग्रहीतरि स्याद् व्याधानां घातिपक्षिणि गृह्णाति ग्राहकः । ग्रहीतरि वाच्यलिङ्गः । तत्र यथा- न गुणग्राहको जनः। व्याधसम्बन्धे निहिंस्र पक्षिभेदे श्येनादौ यथा-नाहं ग्राहकपञ्जरं पुनरिदं गृह्णाति जीवन्नहो । गान्धिको लेखके गन्धवाणिजे । गन्धो बालः प्रयोजनमस्य गान्धिकः । “प्रयोजनम्" ६/४/११७ । इति इकण् । गन्धः पण्यमस्येति वा। "तदस्य पण्यम्" ६/४/५४ । इति इकण् । द्वयोर्यथा-नानापत्रौघमेते मुकुलितनयना गान्धिकाः शोधयन्ति । गुण्डकः पुनः कलोक्तौ मलने धूलौ स्नेहपात्रे । गुण्डयतेऽनेन गुण्डकः । “नाम्नि पुंसि च" ५/३/१२१। इति णकः। चतुर्वर्थेषु ॥३४॥ कलोक्तिर्मधुरभणितिः । मलनं धारणम् । धूलिः पांसुः । स्नेहपात्रं कुतुपादि । अथ गैरिकम् ॥ स्वर्णे धातौ। गिरौ भवं गैरिकम् । गिरिणा विग्रहो गिरिका तु "भवे" ६/३/१२३ । इत्यण् । अव्यधिकन्यायेन