________________
तृतीयः काण्ड:
खोलकः पूगकोशे स्याच्छिरस्त्रे नाकुपाकयोः । ग्रन्थिकं पिप्पलीमूले ग्रन्थिपर्णकभेषजे ॥३१।। ग्रन्थिको गुग्गुलौ दैवज्ञे माद्रयकरीरयोः ।
गण्डको विघ्ने विद्यायां सख्यावच्छेदखड्गिषु ॥३२॥ विक्रयिणि यथा-सेयं खट्टिकहट्टिका परिलुठत्पापिष्ठवण्ठाकुला। खुल्लकः स्वल्पनीचयोः। खद् हिंसायां च खद्यते खुल्लकः । "कीचक" (उ० ३३) इति साधुः। वाच्यलिङ्गः। द्वयोर्यथाक्षीवः खेलति खुल्लकः ॥३०।। खोलकः पूगकोशे स्याच्छिरस्त्रे नाकुपाकयोंः । खलति खोलकः । “कीचक" (उ० ३३) इति साधुः। पूगकोशः पूगपुटम् । शिरस्त्रं शिरस्त्राणम् । नाकुर्वल्मीकः। पाको टिम्भः । सर्वेषु यथा-नरोऽयं नगवद्भाति मौलिलालितखोलकः । ग्रन्थिकं पिप्पलीमूले ग्रन्थिपर्णकभेषजे । ग्रन्थिरत्रास्ति ग्रन्थिकम् । ब्रीह्यादित्वादिकः । ग्रन्थि रेव वा। ग्रन्थोऽस्यास्ति वा । “अतोऽनेकस्वरात्” ७/२/६ । इति इकः ॥३१।। ग्रन्थिको गुग्गुलौ दैवज्ञे माद्रेयकरीरयोः । गुग्गुलकरीरौ वृक्षौ । दैवज्ञो गणकः । माद्रेयः (नकुलोऽपि) सहदेवः । गण्डको विघ्ने विद्यायां संख्यावच्छेदखड्गिषु । गण्डति गण्डकः । पञ्चस्वर्थेषु । विघ्ने यथा-चण्डि खण्डय गण्डकान् । विद्या विद्याविशेषः । संख्याविशेषश्वत्वारः कपर्दकाः । अवच्छेदे पर्वणि तु स्त्रियाम, लक्ष्य यथा-इक्षोः क्षेत्रे द्विपेन्द्रावलिकवलकृते गण्डिकाः खण्डयन्ति । उपधानेऽपि मंखः। तत्र खड्गिनि एकशृङ्गे च यथा-शय्येव विन्ध्यवसुधागरुगण्डकाद्या ॥३२॥ गण्डकी तु सरिभेदे । गौरादित्वाद् डीः। यथा-सिप्रावेत्रवती महासरिदिति ख्याता च या गण्डकी। गणको ग्रहवेदिनि । गणयति गणकः।