________________
(१४)
अनेकार्थसंग्रहः सटाक:
पारम्प-गतख्यातमङ्गलाद्वाहसूत्रयोः । गीतादौ भोगकाले च कौशिकः शक्रघूकयोः ॥२८॥ कोशज्ञे गुग्गुलावाहितुण्डिके नकुले मुनौ ।। कौशिकी चण्डिकानद्योः खनकः सन्धितस्करे ।।२९।। मूषिके भूमिवित्तज्ञे खट्टिको मांसविक्रयो ।
महिषीक्षीरफेनश्च खुल्लकः स्वल्पनीचयोः ॥३०॥ शक्रघूकयोः । कोशशे गुग्गुलावाहितुण्डिके नकुले मुनौ । कुशिकस्यापत्यं कौशिकः । विदादित्वादन् । कौशेते वा "कुशिक हृदिक" (उ० ४५) इति साधुः । कोशो भाण्डागारं प्रयोजनमस्येति वा "प्रयोजनम्" ६/४/११७ । इति इकण् । शके घूके च यथा-प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ।।२८।। कोशज्ञे भाण्डागारशे यथा-कोशिनीयानकौशिकाः । गुग्गुलौ यथा-अगुरुतुरुष्ककौशिकवररोचना धूपामोदप्रियः। आहितुण्डिके नकुले च यथा-तुरग इव कौशिकात्स बिभ्यत् । मुनौ विश्वामित्रे यथा-कौशिकेन स किल क्षितीश्वरो राममध्वरविघातशान्तये। कौशिकी चण्डिकानद्योः। द्वयोर्यथा-कौशिकी श्रेयसेऽस्तु वः। खनकः सन्धितस्करे ॥२९॥ मूषिके भूमिवित्तज्ञे । खनति खनकः । "नृत्खनुजः शिल्पिन्यकट्" । ५/१/६५ । सन्धितस्करः सुरङ्गाचौरः ॥२९।। मूषिक आखुः। भूमिवित्तज्ञो निधानवेत्ता । त्रिष्वपि यथा-खन्यन्ते खनिकैर्भुवः। जलाधारेऽपि मंखः । तत्र च स्त्रियां यथा-वनिका खनिका रथ्या प्रपा सत्रावरोहणम् । खट्टिको मांसविक्रयी। . महिषीक्षीरफेनश्व । खट्टण सम्वरणे । खट्टयति खट्टिकः । “कुशिक' (उ० ४५) इति साधुः। मांस