________________
तृतीयः काण्ड
कुशिको मुनिभेदे स्यात्फाले सर्जे विभीतके । क्षुल्लकः पामरे स्वल्पे कनिष्ठे दुःस्थिते खले ॥२५॥ अकूचिका क्षीरविकृतौ कुञ्चिकायां च कुड्मले । आलेख्यकूचिकासूच्योः कृषको फालकर्षकौ ॥२६॥ कोरकं तु कुड्मले स्यात्कत्कोलकमृणालयोः ।
कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि ।।२७।। ।।२६।। कोरकं तु कुड्मले स्यात्कत्कोलकमृणालयोः । कुरति कोरकम् । “द क न" (उ० २७) इति अकः । पुंक्लीबः । कुड्मले यथा-मरुदवनिरुहारजो वधूभ्यः समुपहरन् विचकार कोरकाणि । कत्कोलको वृक्षः। मृणालं बिसम् । कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि । पारम्पर्यागतख्यात (स्थाने) मङ्गलोद्वाहसूत्रयोः। गीतादौ भोगकाले च । कूयते कौतुकम् । "कञ्चकांशुक" (उ० २७) इति साधुः । कुतुकमेव वा प्रज्ञादित्वादण् । कुतुकस्य भावो वा युवादित्वादण् । नवस्वर्थेषु । नर्मणि यथा-गङ्गां सपत्नीमिव कौतुकेन सन्दर्शयन्मूद्धिन शिवः शिवायाः। इच्छायां यथा-बाहु, रणकौतुकी । उत्सवे यथाविवाहकौतुके ताभ्यां यौतकं नृपतिर्ददौ । कुतुके कौतूहले यथा-निजकरतलरङ्गे नत्तितः कौतुकेन । मुदि हर्षे यथाकौतुकोत्फुल्ललोचनाः ॥२७॥ पारम्पर्यागत ख्यात मङ्गले यथा-वैवाहिकः कोतुकसंविधान हे गृहे व्यग्रपुरन्ध्रिवर्गम् । उद्वाहसूत्रे यथा--अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः। गीतादौ यथा--नार्यो जगुर्मङ्गलकौतुकानि । भोगकाले यथा-अङ्गनाकौतुकेऽनङ्गः प्रत्यङ्गं संचचार सः । कौशिकः * प्र० कूपको गुणवृक्षे स्यात्तैलपात्रे ककन्दरे । कुचिका० ।।