________________
wnnnnwrAAAAAAAAV
(१२) अनेकार्थसंग्रहः सटोकः
कोचको ध्वनिमवंशे दैत्यभेदे दुमान्तरे । कुलकं पञ्चादिश्लोकसमन्वये पटोलके ॥२३॥ कुलकः कुलप्रधाने वल्मीके काकतिण्डुके ।
कुलिकस्तु कुलश्रेष्ठे द्रुमनागविशेषयोः ॥२४॥ त्रिष्वर्थेषु । नागविशेषे यथा- कर्कोटः कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सज्जः सेवाञ्जलिस्ते कपिलकुलिकयोः स्तौति च स्वस्तिकस्त्वाम् ॥२४॥ कुशिको मुनिभेदे स्यात् फाले सर्जे विभीतके । कुष्णाति कुशिकः “कुशिक हृदिक" (उ० ४५) इति साधुः । चतुर्षु अर्थेषु । मुनिभेदे यथायूपवत्यवसिते क्रियाविधौ कालवित्कुशिकवंशवर्द्धनः । फाले यथा-दारयन् कुशिके नोर्वी सर्जविभीतको वृक्षौ । क्षुल्लकः पामरे स्वल्पे कनिष्ठे दुःस्थिते खले । क्षुणत्ति क्षुद्यते वा क्षुल्लकः । “कीचक पेचक" (उ० ३३) इति साधुः । क्षुधं लाति वा क्षुल्लः । स्वार्थे के क्षुल्लकः । पञ्चस्वर्थेषु वाच्यलिङ्गः । सर्वेषु यथा-राजञ जगत्त्रयीमल्ल त्वत्तोऽन्ये क्षुल्लका नृपाः । क्षुद्रशङ्केऽपि ॥२५॥ कूचि (चि) काक्षीरविकृतौ कुञ्चिकायां च कुड्मले । आलेख्यकूचिकासूच्योः । कोचति कूचिका । "कुशिक"--इति साधुः । पञ्चस्वर्थेषु । क्षीरविकृतौ यथा-कुचिका पित्तनाशिका । कुञ्चिकायां यथा-कूचिका रन्ध्रसम्बन्धे यथा किलकपाटयोः । कुड्मलं मुकुलम् । आलेख्यकूचिका चित्रतूलिका । सूचि केतकाद्यग्रभागः। सीवनी च । कृषकौ फालकर्षकौ । कृषति कृषकः । “कृषेर्गुणवृद्धी च वा” (उ० ३१) इति किदकः । फालः कुशिकः । कर्षकः कुटुम्बी। द्वयोर्यथा-कृषन्ति कृषकाः क्षेत्रं कर्षोत्कर्षपवित्रितम्