________________
तृतीयः काण्ड
(११)
स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे । क्रमदेयवस्तुमूल्ये कार्ये वृश्चिकपत्रयोः ॥२१॥ रोमाल्यां धूमरीमांस्योः काकीपटोलशाखयोः ।
किम्पाको वृक्षभिद्यज्ञे कोटको निष्ठुरे कृमौ ॥२२॥ धूम• यथा-विकृत्य कालिकाम्भोजे मुनिः कैवर्त्तवालिकाम् । मांसी गन्धद्रव्यम् । काक्यां यथा-पुष्णाति कालिका पूर्वं पश्य कोकिलबालकान् । किम्पाको वृक्षभिद्यज्ञे। कुत्सितः पाकः परिणामोऽस्य किंपाकः। कुत्सितः पाको वा ल इति वा । वृक्षभिदि यथा-किम्पाकफलसंकाशाः । अज्ञो मूर्खः । वाच्यलिङ्गः। कीटको निष्ठुरे कृमौ। कीटयतीति कीटकः। कीट एव वा कीटकः। निष्ठुरे वाच्यलिङ्गः। कृमौ यथा-स मृत्वा जायते पापः पङ्के प्रकटकीटकः ।।२२।। कीचको ध्वनिमद्वंशे दैत्यभेदे द्रुमान्तरे । कच्यते कीचकः। “कीचकपेचक" (उ० ३३) इति साधुः ध्वनिमति वंशे यथा-सकीचकर्मारुतपूर्णरन्ध्र रणद्भिरापादित वंशकृत्यम् । दैत्यभेदे विराटश्याले यथा-भीमो भीषयते सैषमेचकः कीचकासृजा । कुलकं पञ्चादि श्लोकसमन्वये पटोलके कोलति कुलकम् । “ध्र धून्दि" (उ० २९) इति किदकः । कुलं कायति वा पञ्चादिश्लोकानां समन्वय एकवाक्यतयाऽर्थसङ्गतिः । यदाह-पञ्चादिभिश्चतुर्दशान्तैः कुलकम् । तत्र यथा--मुक्तकं कुलकं कोशः ॥२३॥ कुलकः कुलप्रधाने वल्मीके काकतिण्डुके । कुलप्रधाने यथा-क्रियेत यद्वा कुलकैः कुलोन्नतिः । वल्मीको वामलूरः । काकतिण्डुको वृक्षः । कुलिकस्तु कुलश्रेष्ठे द्रुमनागविशेषयोः । प्रशस्तं कुलमस्यास्ति कुलिकः । “अतोऽनेकस्वरात्" ७-२-६ । इति इकः ।