________________
(१०)
अनेकार्थसंग्रहः सटोकः
कृतिविवरणश्लोका नापितादिककर्म च । कावृकः कुक्कुटे कोके पीतमुण्डेऽथ कार्मुकः ॥१९॥ वंशे कार्मुकमिष्वासे कर्मठे क्षारको रसे । कोरके पक्ष्यादिपाशे कालिका योगिनी भिदि ॥२०॥
यथा--कः क्षते क्षारकं क्षिपेत् । कोरके यथा--क्षारकैः कुसुमचापसायकैः । पक्ष्यादीनां पाशे बन्धने यथा-क्षारकाङ्कितकूर्परः । कालिका योगिनी भिदि स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे । क्रमदेयवस्तुमूल्ये कायें वृश्चिकपत्रयोः । रोमाल्यां धूमरीमांस्योः काकीपटोलशाखयोः । काल्येव कालिका । कालो वर्णोऽस्त्यस्या इति वा। "अतोऽनेकस्वरात्" ७--२--६ । इति इकः । कालयति वा । कालस्य भावो वा । चौरादित्वादकने । चतुर्दशस्वर्थेषु । योगिनि भिदि यथाहरसिद्धेः प्रतीहारी कालिकानाम योगिनी ॥२०॥ स्वर्णादिदोषे यथा-निकषेण विना हेम्नः कालिका नहि लक्ष्यते । मेघाली सामान्येन मेघपङ्क्तिः । तत्र यथा-व्यभाव्यत प्रलयजकालिकाकृतिविद्रतः प्रतिबलकेतनावली। सुरायां मदिरायां यथायाति कालिकया द्रव्यं कारूणां पापकर्मणाम् । गौर्यां यथाविज्ञेयं कालिकामतम् । नवाम्बुदः कादम्बिनी तत्र यथा-कालिकेव निबिडा बलाकिनी। क्रमदेयवस्तुमूल्यं यद् व्ययकरणादौ व्यवहारिभिघृतादिवस्तुप्रवेशनाय द्रव्यं गृह्यते । कलान्तरेऽपि मंखः । द्वयोर्यथा-दुःखेन दीयते वालः कालिका कालजल्पिता । कायें यथा-शौर्योष्मभाजां भजतां मुखानि स्वबाहुमौर्वीकिणकालिकव । वृश्चिकपत्रं पटोलशाखा च ओषधी ॥२१॥ रोमाल्यां यथा-दूर्वाल्येव नवा कुल्या वाला कालिकया बभौ ।